SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ (३१४) अनेकार्थसंग्रहः सटोकः चुल्लीरन्ध्रे बले पार्वे वर्ग केशात्परश्चये ।' पिच्छे विरोधे देहाङ्गे सहाये राजकुञ्जरे ॥५५२॥ प्लक्षो दीपे गर्दभाण्डेऽश्वत्थे जटिनि पक्षके ॥ प्रेक्षाधीरीक्षणं नृतं प्रैषः प्रेषणपीडने ।।५५३।। णाद्वयं द्वयस्या प्रतीमं प्रतीमः । साध्ये यथा-साध्यधर्मविशिष्टो धर्मी पक्षः ॥५५१।। चुल्लीरन्ध्रे यथा-पक्षे क्षिप्त्वाशु शुक्षणिम्। बले सैन्ये पिच्छे गरुति च यथा-चलितदुर्बलपक्षपरिग्रहः । पावं गृहपार्श्वद्वारम् । तत्र यथा-पक्षद्वारेण निर्गतः। वर्गे सजातीयगणे यथा-स्वपक्षक्षयकारकः । केशात्परश्चये समूहे यथान केशपक्षः क्षपितोऽपि रेणुना विपक्षनामग्रहलब्धमोहया । विरोधे यथा - विपक्षमखलीकृत्य प्रतिष्ठा खलु दुर्लभा । देहाङ्गे यथा - वामेन पक्षेण न दक्षिणेन न वाग् न चोत्तानमनातुरोऽपि । वियोगयोगात्परमोऽपि धीरो वज्रावपातादिव दुःखमाप्ते(स्ते)। सहाये यथा-सपक्षारुजवः शुद्धाः सफला गुणसेविनः। राजकुञ्जरे यथा-आरुह्यपक्षं क्षपितारिपक्षः ॥५५२॥ प्लक्षो दीपे गर्दभाण्डेऽश्वत्थे जटिनि पक्षके । प्लोषति प्लक्षः । "प्लुषेः प्लष् च” (उ० ५६६) इति सः । पञ्चस्वर्थेषु । द्वीपे यथा-जम्बूद्वीपः सर्वमध्ये ततश्च प्लक्षो नाम्ना शाल्मलोतः क्रमोतः । गर्दभाण्डो वृक्षः। अश्वस्थः पिप्पलः । जटी पर्कटी तत्र यथा-प्लक्षप्ररोह इव सौधतलं विभेद । पक्षकः पक्षद्वारम् । प्रेक्षा धीरीक्षणं नृत्तम् । प्रेक्षणं प्रेक्ष्यतेऽसावनया वा प्रेक्षा। धियां बुद्धौ यथा-प्रेक्षावन्तो विव क्षन्ते न क्षीणं न निरर्थकम् । ईक्षणे यथा-सततप्रेक्षया ज्ञाता - सुसाध्या सामया सखे । प्रयत्नमात्राः संसाध्यास्तादृश्यः कथिता
SR No.002279
Book TitleAnekarth Sangraha Satik Part 01
Original Sutra AuthorHemchandracharya
AuthorMahendrasuri, Jinendravijay
PublisherHarshpushpamrut Jain Granthmala
Publication Year1972
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy