________________
द्वितीयः काण्डः
(३१३) गृहे ध्वाङ्क्षी तु कक्कोल्यां ग्यक्षः कात्स्न्यनिकृष्टयोः । .. जामदग्न्येऽपि पक्षस्तु मासार्धे ग्रहसाध्ययोः ॥५५१।।
द्रुमे । दक्षते दक्षः । पटौ वाच्यलिङ्गः। प्रजापतौ यथा-दक्षस्य कन्या भव पूर्वपत्नी। रुद्रवृषभश्शम्भोरनड्वान् । पटुश्चतुरः। तत्र कुक्कुट च यथा-गौतमाह्वानमिषतः कामिनो बोधयत्यलम् । प्रभाते ताम्रचूडोऽत्र दक्षोऽसौ हि किमद्भुतम् । द्रुमो द्रुमविशेषः। दक्षा तु मेदिन्यां । मेदिनी पृथ्वी । ध्वाङ्क्षः काके बकेथिनि । गृहे । ध्वाङ्क्षति ध्वाङ्क्षते वा ध्वाङ्क्षः । काके यथा-ध्वाङ्क्षविरावी न पिको निवसन्नपि बलिभुजां भुवने । बके यथास्तब्धग्रीवो मौनी निश्चलपिहितार्द्धलोचनः शश्वत् । सजले जनो य आस्ते स किल ध्वाङ्क्षव्रती प्रोक्तः । अर्थी तर्कुको भिक्षुको वा । तत्र वाच्यलिङ्गः। तत्र यथा- क्षितितले ध्वाङ्क्षो जनो लक्षशः ॥५५०॥ गृहं तु गृहविशेषः । यद् व्याडि:-ध्वजो धूमश्च सिंहश्च श्वा वृषश्च खरो गजः । ध्वाङ्. क्षोऽष्टमश्च प्राच्याद्या ईशानान्ताः क्रमादमी। ध्वाङ्क्षी तु कक्कोल्यां । गौरादित्वाद् डीः। कक्कोली ओषधिभेदः । न्यक्षः कात्स्य॑निकृष्टयोः। जामदग्न्येऽपि । न्यक्षति नियतान्यक्षराण्यस्येति वा न्यक्षः । निकृष्ट वाच्यलिङ्गः । कात्स्न्यै निकृष्ट च यथा-आसीन्न्यक्षविपक्षकक्षदहनः । जामदग्न्ये भार्गवे यथान्यक्षेण क्षपितः पक्षः क्षत्रियाणां क्षणादयम् । पक्षस्तु मासार्धेग्रहसाध्ययोः । चुल्लीरन्ध्र बले पार्वे वर्गे केशात्परश्चये। पिच्छे विरोधे देहाङ्गे सहाये राजकुञ्जरे । पच्यते पक्षः । “मा वा वदि" इति सः । त्रयोदशस्वर्थेषु । मासाद्धे यथा-मासि मासि समाज्योत्स्नापक्षयोरुभयोरपि । ग्रहे यथा-अपक्षपातेन परीक्षमा