________________
(३१२)
अनेकार्थसंग्रहः सटीकः
घोषः कांस्ये स्वने गोपघोषकाभीरपल्लिषु । घोषा तु शतपुष्पायां चोक्षः सुन्दरगोतयोः ॥५४८॥ शुचौ झषस्तु मकरे वने मीने झषा पुनः । नागवलायां तुषस्तु धान्यत्वचि बिभीतके ।।५४९।। दक्षः प्रजापतौ रुद्रवृषभे कुक्कुटे पटौ ।
द्रुमे दक्षा तु मेदिन्यां ध्वाङ्क्षः काके बकेऽथिनि ॥५५०।। नदी सारणिर्वा नद्यां यथा-भगीरथी कर्षति देवकम(गङ्गाम्)। सारणौ यथा-कधुभिरासेवितवृक्षकाणां क्रीडान्तराले मुनिकन्यकानाम ।।५४७।। घोषः कांस्ये स्वने गोपघोषकाभीरपल्लिषु । घोषति घोषणं घोषन्ति अस्मिन्वा घोषः। पञ्चसु अर्थेषु । कांस्ये यथा-मुखामुखे निक्षिपघोषपत्रम्। स्वने यथा-शुश्राव घोषं न जनौधजन्यम् । गोपे आभीरपल्लौ च यथा-हैयङ्गवीनमादाय घोषवृद्धानुपागतान् । घोषको भाषकः । तत्र वाच्यलिङ्गः। घोषा तु शतपुष्पायां । शतपुष्पा ओषधिः । चोक्षः सुन्दरगोतयोः। शुचौ। चायते चोक्षः। “लाक्षा द्राक्षा" (उ० ५९७) इति साधुः। सुन्दरे शुचौ च वाच्यलिङ्गः। तयोर्यथा-रजकक्षालितक्षोमे चोक्षदन्तांशुरब्रबीत् । गीतं चोक्षशाटकरागः। तत्र यथा-प्रेक्षणीये विलासिन्या चोक्षरागहृतं मनः ॥५४८॥ झषस्तु मकरे वने मीने । झषति झषः । मकरे मीने च यथा-स्त्रीमुद्रां झषके तनस्य महतीं सर्वार्थसंपत्करीम् । वने यथा-उज्झन्ति शीण हि झषं विहङ्गाः। झषा पुनः । नागवलायां । नागवला ओषधिः । तुषस्तु धान्यत्वचि बिभीतके । तुष्यत्यनेन तुषः । "स्थादिभ्यः कः" ५।३।८२। इति कः। धान्यत्वचि यथातुरैरपि गरित्यक्ता न प्ररोहन्ति तण्डुलाः । बिभीतको वृक्षः। दोषेऽपि मंखः । म्राम्यत्येष स कोऽपि निस्तुषगुणो दृष्टावशिष्टो जनः ।।५४९॥ दक्षः प्रजापतौ रुद्र वृषभे कुक्कुट पटौ।