________________
द्वितीयः काण्डः
भित्तो साम्ये रथभागेऽन्तरीयपश्चिमाञ्चले ।
उद्ग्राहिण्यां च कळूस्तु तुषाग्नौ कृषिकुल्ययोः ॥५४७।। कच्छे शुष्कवने तृणे पापे । कर्षति कक्षः । “मा वावद्यमि" (उ० ५६४) इति सः। दोर्मुले स्त्रीपुंसः । वीरुधि यथा-नास्ति कक्षो निरोषधिः । दोर्मूले यथा-स यस्य दशकन्धरं कृतवतोऽपि कक्षान्तरे । कच्छोऽनूपप्रायः । तत्र यथा-कक्षं विवक्षति गजः सलिलं पिपासुः। शुष्कवने यथा-आसीत्र्यक्षविपक्षकक्षदहनः । तृणे यथा-प्रक्षिप्योदचिषं कक्षे शेरते तेऽभिमारुतम् । पापे यथाकक्षायते प्रेयसि यः प्रपन्ने तं हन्त धिकापुरुष वदन्ति । कक्षा त्विभरज्जौ काञ्च्यां गेहप्रकोष्ठके। भित्तौ साम्ये रथभागेऽन्तरीयपश्चिमाञ्चले । उद्ग्राहिण्यां च । इभरज्जौ यथा-सान्द्रत्वल्कास्तल्पतालिष्टकक्षा मागी शोभामाप्नुवन्तश्चतुर्थीम् । काञ्च्यां रसनायां यथा-कक्षां समाक्रष्टुमथाचकाक्षुः । गेहप्रकोष्ठको गृहभूमिभागः । तत्र यथा-सप्त कक्षा अतिक्रम्य ॥५४६।। भितौ यथा-कक्षालग्ना शतपदी ग्रहीतुं न हि शक्यते । साम्ये यथा-पक्षीन्द्रकक्षां क्रिमुपैति कक्षी। रथभागे यथा-दृढकक्षैः परोलक्षैः रथैः क्षुण्णक्षमातल: । अन्तरीयं निवसनं तस्य पश्चिमाञ्चले यथा-प्रलम्बकक्षाः खलु दाक्षिणात्याः । उद्ग्राहण्यां यथा-कतिकक्षा विवक्षसे । प्रतिज्ञायामपि मंखः । यथा-दृढकक्षस्तु विवदेद्यत्प्रमेयान हीयते । कर्पूस्तु तुषाग्नौ कृषिकुल्ययोः । कृष्यते कर्षणं कर्षति वा कर्षः । “कृषि चमि" (उ० ८२९) इति ऊः । तुषाग्नौ पुंसि । शेषयोः स्त्रियाम् । तुषाग्नौ करीषानले यथा-उद्दीप्य कषू जुहुयात् य इच्छेद् ब्रह्मवर्चसम् । कृषौ यथा-कळू कुर्वन्ति ये काले । कुल्या