________________
(३१०)
अनेकार्थसंग्रहः सटोकः
अक्षं सौवर्चले तुत्थे हृषीके स्यादुषा निशि ॥ बाणपुत्र्यां च ऋक्षस्तु स्यान्नक्षत्राच्छभल्लयोः ॥५४४॥ महीधरविशेषे च शोणके क्षतवेधने ॥ ऋषिदे मुनौ कर्षः कर्षणे मानभिद्यपि ॥५४५।। कक्षो वीरुधि दोर्मूले कच्छे शुष्कवने तृणे । पापे कक्षा विभरज्जौ काञ्च्यां गेहप्रकोष्ठके ॥५४६॥
द्यूते द्यूतमात्रे यथा-अक्षेण हारितं राज्यं पूर्वैः सक्षत्रियैरपि । बीजे पद्मादि फले यथा - कृतोऽक्षसूत्रप्रणयी तया करः। विभान्तमच्छस्फटिकाक्षमालयेत्यादौ तु उपचारात् ॥५४३।। अक्षं सौवर्चले तुत्थे हृषीके स्यात् । सौवर्चलं कृष्णलवणम् । तुत्थं मयूरग्रीवम् । हृषीकम् इन्द्रियं तत्र यथा-जिताक्षस्य तृणं नारी निःस्पृहस्य तृणं नृपः । उषा निशि। बाणपुत्र्यां च । उषति उषा । द्वयोर्यथा-करैः स्पृशत्युषामिन्दुरनिरुद्ध इवाधिकम् । ऋक्षस्तु स्यान्नक्षत्राच्छभल्लयोः। महीधरविशेषे च शोणके क्षतवेधने । ऋज्यते ऋक्षः। "ऋजि रिषि" (उ० ५६७) इति कित् सः। नक्षत्रे पुंक्लीबः। नक्षत्राच्छभल्ल्योर्यथाऋक्षाणां भूरिधाम्नां श्रितमधिपतिना प्रस्फुरद्भीमतारम् ।।५४४॥ महीधरविशेषे यथा-विन्ध्यश्च पारियात्रश्च माल्यवानृक्षपर्वतः । शोणकोऽरलुवृक्षः। कृतवे धनः कृतच्छिद्रः । ऋषिदे मुनौ । ऋषति ऋषिः । “नाम्युपान्त्य" (उ० ६०९) इति किदिः पुंसि । वेदे यथा-राजानमभिषिञ्चैयुरार्मन्त्रद्विजोत्तमाः । अत्र ऋषेर्वेदस्येमे आर्षा मन्त्राः । मुनौ यथा-रथाङ्गपाणेः पटलेन रोचिषामृषित्विषः सम्बलिता विरेजिरे । कर्षः कर्षणे मानभिद्यपि । कर्षणं कृषति वा कर्षः । मानभेदे पुंक्लीबः । तत्र यथा-षोडषमाषो निगद्यते कर्षः ।।५४५।। कक्षो वीरुधि दोर्मूले