________________
द्वितोयः काण्डः
(३०९)
अक्षो रथस्यावयवे, व्यवहारे बिभीतके ।। प्रासके शकटे कर्षे, ज्ञाने चात्मनि रावणौ ॥५४३॥
लोध्रो वृक्षः। नृभेदः कामशास्त्रोक्तलक्षणस्तत्र यथा-शशो वृषोऽश्व इति लिङ्गतो नायकभेदाः। स्पशो हेरिकयुद्धयोः। स्पशिः सौत्रः। स्पशति स्पशः। द्वयोर्यथा-शब्दविद्येव नो भाति राजनीतिरपस्पशा। सङ्ग्रामे स्वप्राणनिर्पक्षो व्यालं हस्तिनं योधयति यः स तीक्ष्णाख्यः पुरुषस्तत्रापि । स्पर्शी वर्गाक्षरे(वर्गान्त रे) दाने स्पर्शने स्पर्शके रूजि । स्पृशति स्पर्शः। “पदरुज" ५।३।१६। इति घन । स्पर्शनं वा । वर्गाक्षरे यथा-स्पृष्टं करणं स्पर्शानाम् । दाने यथा-गोसहस्रस्य च स्पर्शः प्रायश्चितं परं स्मृतत् । अत्र ण्यन्तादल । दाने हि ण्यन्तो दृश्यते यथा-गाः कोटिशः स्पर्शयता घटोध्नोः। तथा हि ग्रहीता स्पृशति दाता स्पर्शयतीति । स्पर्शने यथा-चिरात्सुतस्पर्शरसज्ञतां ययौ । स्पर्शक: स्पृष्टा । रुजि रोगविशेषे यथा-स्पर्शे धूमं प्रयोजयेत् ।।५४२॥ अथ षान्ताः। अक्षो रथस्यावयवे व्यवहारे बिभीतके । प्रासके शकटे कर्षे ज्ञाने चात्मनि रावणौ। अक्षति अक्षः। अश्नुते वा । "मा वा वद्यमि" (उ० ५६४) इति सः। रथावयवे यथाअक्षं नक्षत्रनाथोऽरुणमपि वरुणः कूबराग्रं कुबेरः। व्यवहारो आयव्ययादिन्यायः। तत्र यथा-राजाध्यक्षः। बिभीतके यथाअक्षेषु रक्षांसि यतो वसन्ति । प्रासके यथा-इत्थं नेयौ रजनिदिवसौ दोलयन् द्वाविवाक्षौ। शकटे यथा-हस्तिभिस्तुरगै रक्षः संबाधेऽस्मिन् रणाङ्गणे । कर्षे यथा अक्ष: षोडशमाषकः। ज्ञाने आत्मनि च यथा-अक्षेण दक्षो बुबुधेऽक्षरूपम् । रावणौ रावणसुते यथा-धनुर्धरकलादक्षो यदक्षो हतः। द्यूतबीजयोरपि मंखः।