________________
द्वितीयः काण्ड:
wwwmmmmmmmmmmma धनुः शरासने राशौ पियालद्रौ धनुर्धरे । नभो व्योम्नि नभा घ्राणे विसतन्तौ पतद्ग्रहे ॥५७०॥ प्रावृषि श्रावणे नासा घोणा द्वारोज़दारुणोः ।
पयः क्षीरे च नीरे च प्रसूरश्वा जनन्यपि ॥५७१।। कर्मश्रमशिथिलतनुः कुम्भदासी तथाऽत्र ॥५६९।। धनुः शरासने राशौ पियालद्रौ धनुर्धरे । धनति धनुः। "रुद्यत्ति” (उ० ९९७) इति उस् । शरासने पुंक्लीबः । अन्यत्र पुंसि । शरासने राशौ च यथा-धनुस्त्यागं करोत्यस्मिन्नर्कवक्तासरोत्सवे । पियालद्रुः राजादनः। धनुर्धरे यथा-धनुर्धनुष्पाणिरयं दुरापः । नभो व्योम्नि। नभ्यति नभः। “अस्” (उ० ९५२) इति अस् । क्लीबे यथा-ऋते रवेः क्षालयितुं क्षमेत कः। क्षपातमस्काण्डमलीमसं नभः । नभा घ्राणे विसतन्तौ पतद्ग्रहे। प्रावृषि श्रावणे । पञ्चस्वर्थेषु पुंसि । घ्राणं नासिका । विसतन्तुमृणालसूत्रम् । पतद्ग्रहः पालम् ।।५७०।। प्रावृषि यथा-प्रत्यासन्ने नभसि दयिता जीविता लम्बनार्थी (थ)। श्रावणे यथा-अहह पान्थ न जीवति ते प्रिया। नभसि मासि न यासि गृहं यदि । नासा घोणा द्वारोर्द्धदारुणोः। णासृड् शब्दे नासते नासा । घोणा नासिका तत्र यथा-नासा विरोकपवनोल्ललितं तनीयो रोमाञ्चतामिव रजः पृथिव्याः। द्वारशाखाया ऊर्ध्व उपरि दारु द्वारोव॑दारु । स्तम्भादीनामुपरिस्थं दारु इत्यन्ये । तत्र यथानासा निवेशित सिता सित रक्त पीतबिम्बा विशन्ति वसतीविहितातिथेयाः । पयः क्षीरे च नीरे च। पीयते पयः । पाहाभ्यां पयह्यौ च (उ० ९५३) इति अस् । क्लीबे । द्वयोर्यथा-यो हेमकुम्भस्तननिःसृतानां स्कन्दस्य मातुः पयसां