Book Title: Anekarth Sangraha Satik Part 01
Author(s): Hemchandracharya, Mahendrasuri, Jinendravijay
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 329
________________ (३०४) अनेकार्थसंग्रहः सटीकः कुड्मले चषके दिव्येऽर्थचये योनिशिम्बयोः ॥ जातिकोशेऽसिपिधाने, दर्शः सूर्येन्दुसङ्गमे ।।५३४॥ हीवेरं वालकम् । दैत्यो दानवविशेषः। क्लेशो रागादौ दुःखे च । क्लिश्यतेऽनेन क्लेशनं वा क्लेशः। रागादयोऽविद्याऽस्मिता द्वेषाभिनिवेशाः। तत्र यथा-मैत्र्यादिचित्रपरिकर्मविदो विधाय क्लेशप्रहाणमिह लब्धसबीजयोगाः। दुःखे यथा-क्लेशः फले न हि पुनर्नवतां विधत्ते । कोश: कोष इवाण्डके । कुड्मले चषके दिव्येऽर्थचये योनिशिम्बयोः। जातीकोशेऽसिपिद्याने। कुश्यति कोशः। कूयते । “कोर्वा" इति शः। कुष्यते कोषः। कोष इवेति, कोशशब्द:: कोषशब्दश्च नवस्वर्थेषु वर्तते इत्यर्थः। चषके पुंसि । असिपिधाने शिवायां च त्रिलिङ्गौ। अन्यत्र पुंक्लीबो । अण्डके यथा- एतच्चराचरं विश्वं ब्रह्मकोशविनिर्गतम् । ॥५३३।। कुड्मले मुकुलेऽर्थे चये द्रव्यसंचये च यथा-नालस्यप्रसरो जडेष्वपि कृता वासस्य कोशे रुचिः। चषके यथा-कोशेन वेश्याहि पिबन्ति कस्यं । दिव्ये शपथे यथा-कक्षानिक्षिप्तलोप्त्रस्य कोशपानमिदं तव । योनिरुत्पत्तिस्थानम् । तत्र यथा-कस्य न स्याद् रतिः कोशे । शिवायां यथा-कोशैव्रतत्यः प्रतिभान्ति कानने । जातीकोशो जातिफलम् । असिपिधाने यथा-दृढतरनिबद्धमुष्टे: कोशनिषण्यस्य सहजमलिनस्य । अर्थसंचयगृहे पद्मणिकायां मांसखण्डिकायाञ्च मंखः। अर्थसंचयगृहे यथा-यं तु पश्येन्निधिं राजा पुराणं निहितं क्षितौ । तस्माद्विजेभ्यो दत्त्वाधमर्द्ध कोशे प्रवेशयेत् । पद्मकर्णिकायां यथा-कृत्वापि कोशपानं भ्रमरयुवा पुरत एव कमलिन्याः। मांसखण्डिकायां यथा-पिशाचविघसान् कोशान् सास्थीन कवलयन्त्यहो । शिवाशिवाराव

Loading...

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392