________________
C
द्वितीयः काण्ड:
स्वभावजन्मसत्तात्मक्रियालीलाविभूतिषु ॥ चेष्टायोन्योर्बुधे जन्तौ शृङ्गारादेश्व कारणे ॥५२२।।
(२९७)
स्त्र्यम्बकपादपांसवः। भावोऽभिप्रायवस्तुनोः । स्वभावजन्मसत्तात्मक्रियालीलाविभूतिषु । चेष्टायोन्योर्बुधे जन्तौ शृङ्गारादेश्व कारणे । शब्दप्रवृत्तिहेतौ च । भवति भावः । " वा ज्वलादि" ५।१।६२ इति णः । भवनं वा भवतोऽस्मादभिधानप्रत्ययाविति वा । पञ्चदशस्वर्थेषु । अभिप्रायस्वभावात्मयोनिशब्दप्रवृत्तिहेतुषु पुंक्लीबः । शेषेषु पुंसि । अभिप्राये यथा - अन्तर्गतं प्राणभृतां हि वेद सर्वं भवान् भावमतोऽभिधास्ये । वस्तुनि यथा - जगति जयिनस्ते ते भावा न वेन्दुकलादयः ।। ५२१|| स्वभावे यथा - भावानुरक्तवनितासुरतैः शपेयम् । जन्मनि यथा - उपकाराय हिमवतां भावो विधिना प्रतिज्ञातः । सत्तायां यथा-नासतो विद्यते मावो नाभावो विद्यते सतः। आत्मनि यथा-यतो बुधैः सर्वगतस्त्वमुच्यसे न वेत्सि भावस्थमिदं कथं जनम् । अत्र हि सर्वगतस्त्वं ममाप्यात्मा त्वं तत्रस्थिताहमित्यर्थमाहुः । क्रियायां धात्वर्थे यथाधात्वर्थ: केवलः शुद्धो भाव इत्यभिधीयते । लीलायां यथा - हावेर्मावविलासैश्च हरन्ति वरयोषितः । विभूतावैश्वर्ये यथा-शत्रोर्भावोऽपि हि श्रेयान् न मित्रस्य तु दुर्गतिः । अन्धकारोऽपि हि वरं न ज्योत्स्ना तुहिनाहिता । चेष्टायां कायकृते व्यापारे यथा - सर्वभावेन संसारः शुभेनाप्यशुभेन वा । बन्धनायैव साधूनां मुग्धानां तोषणाय च । योनावुत्पत्तिस्थाने यथा - को भावः खलचित्तानां जलानां विद्युतां तथा । अपूर्व एष सन्तानो न विधे: ( विधिः ) सृष्टिगोचरः । बुधेनाद्योक्त्या विदुषि यथा-सौगतजरत्परिव्राजिकायाः कामन्दक्या भूमि भाव एव वेत्ति । जन्तौ यथा - भावा