________________
अनेकार्थसंग्रहः सटीकः
vvvrvAAVA
प्रागने श्रुतिभेदे च भवः सत्ताप्तिजन्मसु ।।
रुद्रे श्रेयसि संसारे, भावोऽभिप्रायवस्तुनोः ।।५२१।। प्रह्वे बन्धे । प्रगतमध्वानम् प्राध्वम् । “उपसर्गादध्वनः' ७।३।७९। इति अत् समासान्तः। दूरपथे यथा-प्राध्वं गता अपि मधौ पथिकाः समीयुः। प्रह्वे प्रवहणे वाच्यलिङ्गः। तत्र यथा - त्वबोधप्राध्वबुद्धेस्त्वदृष्टिनिश्चेष्टचक्षुषः। त्वत्कथोत्सुककर्णस्य कदा कालो ममष्यति । बन्धे यथा-प्राध्वं कृत्वा तुरगयुगलस्यैष सूतः प्रयाति । बन्धे प्राध्वमिति मान्तमव्ययमपि । यथा-प्राध्वंकृत्य रथेष्वश्वान् । पूर्वं तु पूर्वजे । प्रागने श्रुतिभेदे च । पूर्वति पूर्वं पृणाति वा। "नि घृषि' (उ० ५११) इति कित् वः। प्राक्पूर्वजयोर्वाच्यलिङ्गः। पूर्वजे आदिपुरुषे यथा-पूर्वैः किलायं परिवर्द्धितो नः ।।५२०।। प्रागिति दिग्देशः कालो वा। तत्र दिशि यथा-वल्लभीकृतपूर्वाशः पूर्वाशातिलको रविः। देशे यथा-पूर्वापरौ तोयनिधीव गाह्यः । काले यथा-यदा फलं पूर्वतपः समाधिना न तावता लभ्यममंस्त मानिनी । अग्रे प्रथमतोऽर्थे पुंक्लीबः। तत्र यथा-पूर्वं त्वद्गुणबद्धमेव हृदयं बन्धं पुनर्हिति । श्रुतिभेदे आगमविशेषे यथासुनिश्चितं नः परतन्त्रयुक्तिषु स्फुरन्ति याः काश्चन सूक्तसंपदः। तवैव ताः पूर्वमहार्णवोद्धता जगत्प्रमाणं जिनवाक्यविपुषः। भवः सत्ताप्तिजन्मसु । रुद्रे श्रेयसि संसारे । भवनं भवति भवत्यस्मिन् वा भवः। औणादिको अप्रत्ययः। सत्तायामाप्तौ च यथाविभवभवभवेनाहं यवस्ते युवानः। जन्मनि यथा-भवो हि लोकाऽभ्युदयाय तादृशाम् । रुद्रे यथा-तावत्स वह्नवनेत्रजन्मा। श्रेयसि यथा-भवतु भवाय भवानी । संसारे यथा-भवच्छिद