________________
द्वितीयः काण्ड:
जलान्तरे प्लवं गन्धतृणे मुस्तकभिद्यपि । पक्वं परिणते नाशाभिमुखे पाइर्वमन्तिके ॥ ५१९ ॥ कक्षाधोऽवयवे वोपायपशुसमूहयोः । प्राध्वं दूरये प्र, बन्धे पूर्व तु पूर्वजे ।। ५२०॥
(२९५)
कारण्डवः पक्षिभेदस्तत्र भेके जलवायसे च यथा - प्लवमानप्लवव्याप्ता कुल्या यत्र सुशीतला । क्रमनिम्न महीभागे यथाप्रागुत्तरप्लवे देशे लोमशे फलवर्जिते । अग्निचित्यां प्रकुर्वाणः प्राग्वंशं तत्र कल्पयेत् । कुलकः कुलप्रधानः ।। ५१८ ।। जलान्तरम् । विशिष्टं पूरयुक्तं जलमम्बुधिरित्यर्थः । यदाह अम्बुवृद्धौ पूर:प्लवोऽपि च । तत्र यथा - सानन्दबाष्पप्लवाः । प्लवं गन्धतृणे मुस्तकभिद्यपि । गन्धतृणं गन्धप्रधानं तृणम् । मुस्तकभित् कैवर्ती मुस्तकः । पक्वं परिणते नाशाभिमुखे । पच्यते स्म पक्वम् । “क्ष शुषि " ४।२।७८ । इति कस्य वा देशः । वाच्यलिङ्गः | परिणते यथा - तन्वी श्यामा शिखरदशना पक्वनिम्बाधरोष्ठी । नाशाभिमुखे पातोन्सुखे यथा - पक्वस्य बुद्धि किल पातहेतुं सृजन्ति देवा अपि किं विचित्रम् । पार्श्वमन्तिके । कक्षाarsara वक्रोपायपर्शसमूहयोः । स्पृशति स्पृश्यते वा पार्श्वम् । स्पृशेश्वः परे च इति श्वः । पर्शनां समूहो वा । "पर्वाड्वण्” ६।२।२० | कक्षाधोऽवयवे पुंक्लीबः । अन्तिके यथाविसृष्टपार्श्वानुचरस्य तस्य पार्श्वद्रुमाः पाशभृता समस्य ।। ५१९ ।। कक्षाधोऽवयवे यथा - पाश्वभ्यां स प्रहाराभ्यां स व्रणेनाधरेण च । दूति सङ्ग्रामयोग्यासि न योग्या दूतकर्मणि । वक्रोऽनृजुरुपायो लंचादिः । तत्र यथा - पार्श्वेन अन्वेष्टा पार्श्वः । पशुसमूहे यथा- सभग्नपार्श्वो निशितासिधातैः । प्राध्वं दूरपथे