Book Title: Anekantajay patakakhyam Prakaranam Part 1
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 296
________________ अधिकारः ] स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम् (मूलम् ) २६१ चेत्, न, तत्स्वभावविकलस्य तत्कार्यत्वविरोधात्, तज्जननैकस्वभावादेव ततस्तदुत्पत्तेः, अन्यतस्तदभावात्, तस्यापि तत्त्वेऽन्यत्वाभाव इति निरूप्यतां सम्यक्; अन्यथा कार्यैकत्वानुपपत्तिः, समग्र- ५ स्यैव तस्योत्पत्तेः, अनेकजन्यत्वे च तदयोगात्, सर्वेषां तज्जनकत्वात्, एकभाविनोऽपरभावासिद्धेः, तद्वैयर्थ्यप्रसङ्गात्, समग्रजनकत्वयेकस्यापि जनकत्वात्, अन्यथा समग्रजनकत्वविरोधात्, भेदशस्तद्भावापत्तेः, अन्यतज्जनकत्वे च कुतस्तत्स्वभाववैकल्यमिति ( स्वो० व्या० ) १० तस्यापि तज्जननस्वभावत्वात् । इति चेत्, एतदाशङ्कयाह - नेत्यादि । न-नैतदेवम् । कुत इत्याह- तत्स्वभावविकलस्य - विवक्षितंसमग्रतथाविधकार्यजननसमर्थस्वभावविकलस्य, समग्रान्तरस्येति प्रक्रमः । किमित्याह तत्कार्यत्वविरोधात् समग्रान्तरकार्यत्वविरोधात् । विरोधश्च तज्जननैकखभावादेव - तथाविधकार्यजननैकस्वभावादेव ततः प्रथमसमग्रात् । तदुत्पत्तेः- तथाविधकार्योत्पत्तेरन्यतः - समग्रान्तरात् १५ तदभावात् - अन्योत्पन्नकार्याभावात् तत एवोत्पन्नं तदिति किमन्यस्मादुत्पादेन ? सोऽपि जननस्वभाव इत्येवं तज्जनयतीत्याशङ्कानिरासायाह - तस्यापि - अन्यस्य समग्रान्तरस्य तत्त्वे-तजननैकस्वभावत्वे । किमित्याह- अन्यत्वाभावः तत्स्वभावस्य तत्त्वादिति निरूप्यतां सम्यक् ; अन्यथा - एवमनभ्युपगमे किमित्याह - कार्यैकत्वानुपपत्तिः । कुत इत्याह- समग्रस्यैव - अखण्डस्यैव तस्य- कार्यस्य उत्प- १० त्तेः । यदि नामैवं ततः किमित्याह- अनेकजन्यत्वे च सति कार्यस्य तदयोगात्समग्रोत्पत्ययोगात् । अयोगश्च सर्वेषां समग्राणां तज्जनकत्वात्-विवक्षितैककार्यजनकत्वात् । किमेवं न समग्रोत्पत्तिरित्याह-एकभाविन इति एकस्माद् भवितुं शीलमस्येत्येकभावि कार्यं गृह्यते तस्य किमित्याह - अपरस्माद् भावोऽपरभावः, भवनं भाव उत्पादस्तदसिद्धेः । असिद्धिश्च तद्वैयर्थ्यप्रसङ्गात् - अपरवैयर्थ्यप्रसङ्गात् । नैको २५ जनकः समग्रा एव जनका इत्यसग्रहव्यपोहायाह- समग्रजनकत्वेऽपि सति । किमित्याह-एकस्यापि जनकत्वात् । इत्थं चैतदङ्गीकर्तव्यमित्याह-अन्यथाएवमनभ्युपगमे समग्र जनकत्वविरोधात् नैकाद्यभावे सामग्यमिति भावनीयम् । यदि नामैवं ततः किमित्याह-भेदशः-भेदैः तद्भावापत्तेः - कार्यभावापत्तेः नं तत्रैकोऽप्यजनको न चांशजनक इति कृत्वा । अथान्योऽपि तदेव जनयति यदेकेन २० १ 'असमप्रा०' इति ङ-पाठः । ܕ

Loading...

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453