Book Title: Anekantajay patakakhyam Prakaranam Part 1
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 396
________________ अधिकारः] खोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम् ३६१ (मूलम्) रिक्तविशेषणाभावे तद्वैशिष्ट्यासिद्धेः । न हि खच्छोदकविन्दोः सर्वथा समानयोर्व्यक्तिभेदेऽपि तथाजातिभेदो नाम, न चोदकमात्रतत्त्ववादिनस्तदतिरिक्तदेशाद्यननुवेधे तत्तत्त्वाविशेषादितरोऽपि ५ न्याययः। अनादृत्य तु सूक्ष्मेक्षिकामेतदुक्तमिति न सत्त्वादिमात्रमेव तत्, विशिष्टं पुनर्विशेषणभाव इति तदेकानेकखभावत्वसिद्धिः। तत्तथाऽभिधाने च तथा वस्तुशब्दस्वाभाव्यादनेकान्तनीत्या वस्तुतथात्वानुसारि सुस्थितं सामानाधिकरण्यम् । नीलत्वोत्पल(त्व)विशेषपरिणामयोः कथञ्चित् सत्त्वादिसमानपरिणामाभेदात् , तस्य ३० (खो० व्या०) कथञ्चित्-केनचित् प्रकारेण तदतिरिक्तविशेषणाभावे-सत्त्वादिमात्रातिरिक्तनीलत्वादिविशेषणाभावे तद्वैशिष्टयासिद्धेः-नीलोत्पलसत्त्वादिमात्रस्य वैशिष्ट्यासिद्धेः। एतद्भावनायैवाह-न हि स्वच्छोदकविन्दोः सर्वथा समानयोः आकारादिना व्यक्तिभेदेऽपि सति तथा-उदकानुदकत्वेन जातिभेदो नाम, १५ न चोदकमात्रतत्त्ववादिनः-एकान्तवादिनः तदतिरिक्तदेशाद्यननुवेधेउदकत्रितत्त्वातिरिक्तदेशाधननुवेधे सति तत्तत्त्वाविशेषात्-उदकमात्रतत्त्वाविशेषात् इतरोऽपि-व्यक्तिभेदोऽपि न्याय्यः। अनादृत्य तु सूक्ष्मेक्षिकामेतदुक्तमिति-एवं न सत्त्वादिमात्रमेव तत्-नीलोत्पलम् , विशिष्टं पुनः सत्त्वादि विशेषणभावे, नीलोत्पलत्वभाव इत्यर्थः । इति-एवं तस्य, प्रक्रमात् २० नीलोत्पलादेः, एकानेकस्वभावत्वसिद्धिः इति निगमनम् । तत्तथाभिऽधाने च तस्य-नीलोत्पलादेरेकानेकस्वभावस्य तथाऽभिधाने च-तत्त्वाभिधाने च सति 'सुस्थितं सामानाधिकरण्यम्' इति योगः । कथमित्याह तथा वस्तुशब्दखाभाव्याद् वाच्यवाचकत्वेन अनेकान्तनीत्या सत्त्वादिनीलत्वादिभेदाभेदतो वस्तुतथात्वानुसारि-तद्याथात्म्यभणनेन सुस्थितं सामानाधिकरण्यम् । २५ एतदेव विशेषेणोपदर्शयन्नाह-नीलत्वोत्पलत्वविशेषपरिणामयोः। किमित्याह-कथश्चित्-केनचित् प्रकारेणान्योन्यानुवेधरूपाधाराधेयलक्षणेन सत्त्वादिसमानपरिणामाभेदात् तस्य च-अधिकृतसमानपरिणामाभेदस्य यथोक्त १ 'भावोव तद्वैशिष्ट्या' इति क-पाठश्चिन्त्यः । २ 'नु' इति क-पाठः। ३ 'नीलोत्पलत्वविशेषः' इति ग-पाठः । ४ 'मात्रत्वातिरिक्त०' इति ङ-पाठः । ५ 'भाव नीलो.' इति ङ-पाठः । अनेकान्त० ४६

Loading...

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453