Book Title: Anekantajay patakakhyam Prakaranam Part 1
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 410
________________ अधिकारः] स्वोपनव्याख्यामुनिचन्द्रीयविवरणयुतम् ३७५ (मूलम् ) र्थावबोध इत्यनुभवः सर्वप्राणभृतां तदभावे बोधानुपपत्तेः' इति । देवदत्तकान्तेतररूपचिन्तायामनांभोगवतो भोजनमात्रकथनमेतत्, सत्यप्यस्मिन्निष्टार्थासिद्धेः । तथाहि-यदि नाम बोधः शब्दानुविद्धः५ ततः शब्दार्थयोस्तादात्म्यमिति कात्रोपपत्तिः?। अन्यच्च बोधशब्दयोरपि तादात्म्यं वा स्यात् न वा। किश्चातः। तादात्म्ये शब्दस्थापि बोधमात्रतापत्तिरिति तन्मात्रवादसिद्धिः । बोधस्य वाऽचेतनत्वं शब्दात्मत्वेन, तथा चानुभवविरोधा, चेतनाचेतनत्वे च शब्दात्मनो नामकरणं जगद्वैचित्र्यस्य । एतेन यदुक्तम्-'आह च. शब्दार्थवित्-वागरूपता चेदुत्क्रामेत्' इत्यादिकारिकाद्वयं तदपि प्रत्युक्तम् , तुल्ययोगक्षेमत्वादिति । आह च वादिमुख्यः "बोधात्मता चेच्छब्दस्य न स्यादन्यत्र तच्छ्रुतिः। यद् बोद्धारं परित्यज्य न बोधोऽन्यत्र गच्छति ॥ (खो० व्या०) सर्वप्राणभृतां तदभावे बोधानुपपत्तेरिति, एतदिति योगः। एतत् किमित्याह-देवदत्तकान्तेतररूपचिन्तायां सत्यां अनाभोगवतो भोजनमात्रकथनं वर्तते, अनुपयोगीत्यर्थः । तथा चाह-सत्यप्यस्मिन्निष्टार्थासिद्धेः। इष्टं हि शब्दार्थयोस्तादात्म्यं तन्न शब्दानुविद्धबोधमात्रनिमित्तम् । एतदेवाह तथाही. त्यादिना । तथाहीत्युपप्रदर्शने । यदि नाम बोधः शब्दानुविद्धस्ततः शब्दार्थ-२० योस्तादात्म्यमिति कात्रोपपत्तिः ? न काचिदित्यर्थः । इहैवाभ्युच्चयमाह अन्यचेत्यादिना । अन्यच बोध-शब्दयोरपि तादात्म्यं वा स्यान्न वा । किश्चात इत्याह-तादात्म्ये शब्दस्यापि बोधमात्रतापत्तिरिति कृत्वा तन्मात्रवादसिद्धिः-बोधमात्रवासिद्धिः । बोधस्य वाऽचेतनत्वं शब्दात्मत्वेन हेतुना तथा चानुभवविरोधः पक्षद्वयेऽपि । चेतनाचेतनत्वे च अभ्युपगम्यमाने कस्सेत्याह-शब्दात्मन:-शब्दतत्त्वस्य किमित्याह-नामकरणम् । कस्य जगद्वैचित्र्यस्य यदुत शब्द इति । एतेन यदुक्तं पूर्वपक्षे'आह च शब्दार्थवित्-वाग्रूपता चेदुत्क्रामेत्' इत्यादिकारिकाद्वयं प्राक तदपि प्रत्युक्तम् । कुत इत्याह-तुल्ययोगक्षेमत्वादनन्तरोदितेन इति। आह च वादिमुख्या-समन्तभद्रः बोधात्मता चेत्-यदि शब्दस्य ततः किमि... १ समीक्ष्यतां ३६६तम पृष्ठम् । २ भोगवद्भोजन.' इति क-पाठः। ३ ३६६तमे पृष्ठे । ४ 'अत्र तु शब्दार्थतत्ववित्' इति -पाठः। ५ अनुष्टुप्। ६ "सिः ' इति रु-पाठः। ७३६६तमे पृष्ठे।

Loading...

Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453