________________
अधिकारः] स्वोपनव्याख्यामुनिचन्द्रीयविवरणयुतम् ३७५
(मूलम् ) र्थावबोध इत्यनुभवः सर्वप्राणभृतां तदभावे बोधानुपपत्तेः' इति । देवदत्तकान्तेतररूपचिन्तायामनांभोगवतो भोजनमात्रकथनमेतत्, सत्यप्यस्मिन्निष्टार्थासिद्धेः । तथाहि-यदि नाम बोधः शब्दानुविद्धः५ ततः शब्दार्थयोस्तादात्म्यमिति कात्रोपपत्तिः?। अन्यच्च बोधशब्दयोरपि तादात्म्यं वा स्यात् न वा। किश्चातः। तादात्म्ये शब्दस्थापि बोधमात्रतापत्तिरिति तन्मात्रवादसिद्धिः । बोधस्य वाऽचेतनत्वं शब्दात्मत्वेन, तथा चानुभवविरोधा, चेतनाचेतनत्वे च शब्दात्मनो नामकरणं जगद्वैचित्र्यस्य । एतेन यदुक्तम्-'आह च. शब्दार्थवित्-वागरूपता चेदुत्क्रामेत्' इत्यादिकारिकाद्वयं तदपि प्रत्युक्तम् , तुल्ययोगक्षेमत्वादिति । आह च वादिमुख्यः
"बोधात्मता चेच्छब्दस्य न स्यादन्यत्र तच्छ्रुतिः। यद् बोद्धारं परित्यज्य न बोधोऽन्यत्र गच्छति ॥
(खो० व्या०) सर्वप्राणभृतां तदभावे बोधानुपपत्तेरिति, एतदिति योगः। एतत् किमित्याह-देवदत्तकान्तेतररूपचिन्तायां सत्यां अनाभोगवतो भोजनमात्रकथनं वर्तते, अनुपयोगीत्यर्थः । तथा चाह-सत्यप्यस्मिन्निष्टार्थासिद्धेः। इष्टं हि शब्दार्थयोस्तादात्म्यं तन्न शब्दानुविद्धबोधमात्रनिमित्तम् । एतदेवाह तथाही. त्यादिना । तथाहीत्युपप्रदर्शने । यदि नाम बोधः शब्दानुविद्धस्ततः शब्दार्थ-२० योस्तादात्म्यमिति कात्रोपपत्तिः ? न काचिदित्यर्थः । इहैवाभ्युच्चयमाह अन्यचेत्यादिना । अन्यच बोध-शब्दयोरपि तादात्म्यं वा स्यान्न वा । किश्चात इत्याह-तादात्म्ये शब्दस्यापि बोधमात्रतापत्तिरिति कृत्वा तन्मात्रवादसिद्धिः-बोधमात्रवासिद्धिः । बोधस्य वाऽचेतनत्वं शब्दात्मत्वेन हेतुना तथा चानुभवविरोधः पक्षद्वयेऽपि । चेतनाचेतनत्वे च अभ्युपगम्यमाने कस्सेत्याह-शब्दात्मन:-शब्दतत्त्वस्य किमित्याह-नामकरणम् । कस्य जगद्वैचित्र्यस्य यदुत शब्द इति । एतेन यदुक्तं पूर्वपक्षे'आह च शब्दार्थवित्-वाग्रूपता चेदुत्क्रामेत्' इत्यादिकारिकाद्वयं प्राक तदपि प्रत्युक्तम् । कुत इत्याह-तुल्ययोगक्षेमत्वादनन्तरोदितेन इति। आह च वादिमुख्या-समन्तभद्रः बोधात्मता चेत्-यदि शब्दस्य ततः किमि...
१ समीक्ष्यतां ३६६तम पृष्ठम् । २ भोगवद्भोजन.' इति क-पाठः। ३ ३६६तमे पृष्ठे । ४ 'अत्र तु शब्दार्थतत्ववित्' इति -पाठः। ५ अनुष्टुप्। ६ "सिः ' इति रु-पाठः। ७३६६तमे पृष्ठे।