________________
अनैकान्तजयपताकाख्यं प्रकरणम्
(मूलम् )
न च स्यात् प्रत्ययो लोके यः श्रोत्रा न प्रतीयते । शब्दाभेदेन सत्येवं सर्वः स्यात् परचित्तवित् ॥”” ५ इत्यादि । यचोक्तम्- 'नं चालोचनज्ञानमपि न शब्दाननुविद्धं तथाऽननुभवेऽपि सुप्तादिबोधवत् तत्सूक्ष्मभावोपपत्तेः, ऊर्द्ध तत्स्थूरभावात्' इत्यादि तदपि न नो बाधायै, तत्तदनुवेधेऽप्युक्तवत् शब्दार्थयोस्तादात्म्यायोगात् । न च सुप्तादिबोधः सूक्ष्मः सन्न'न्यूनातिरिक्ततद्भाव ऊर्द्ध स्थूरो भवति, एकान्तैकस्य तदन्यप्रति" बन्धकाभावेऽवस्था भेदानुपपत्तेः प्रतिबन्धकभावे च तत्कृतश्चैतन्य
३७६
२५
( स्वो० व्या० )
त्याह-न स्यादन्यत्र बोधुस्तच्छ्रुतिः । उपपत्तिमाह-यद् बोद्धारं परित्यज्य - विहाय न बोधोऽन्यत्र गच्छति, तथाऽननुभवात् । न च स्यात् प्रत्ययो लोके कश्चित् । किंविशिष्ट इत्याह- यः श्रोत्रा - प्राणिना न प्रतीयते । केन हेतु१५ नेत्याह-- शब्दाभेदेन शब्द एव प्रत्यय इति कृत्वा । सत्येवम् - एवं सति सर्वः स्यात् श्रोता परचित्तवित् शब्दस्यैव चित्रत्वादित्यादि । यच्चोक्तं पूर्वपक्षे-'न चालोचनाज्ञानमपि न शब्दाननुविद्धं तथाऽननुभवेऽपि सुप्तादिबोधवत् तत्सूक्ष्म भावोपपत्तेः ऊर्द्ध तत्स्थूरभावात्' इत्यादि, तदपि किमि - > त्याह-न नः- नास्माकं बाधायै । कुत इत्याह- तत्तदनुवेधेऽपि तेन - शब्देन २० तदनुवेधेऽपि - योधानुवेधेऽपि उक्तवत् यथोक्तं तथा शब्दार्थयोः तादात्म्यायोगात्, अन्यचेत्यादिना निदर्शितमेतत् । दूषणान्तरमधिकृत्याह - न चेत्यादि । न च. सुप्तादिबोधः सूक्ष्मः सन्नन्यूनातिरिक्ततद्भावः - तावन्मात्र एव ऊर्द्ध स्थूरो भवति । कुत इत्याह- एकान्तैकस्य बोधरूपतया तदन्यप्रतिबन्धकाभावे कर्मणोऽभाव इत्यर्थः किमित्याह - अवस्थाभेदानुपपत्तेः प्रतिबन्धक
( विवरणम् )
(२४) कर्मणोऽभाव इत्यर्थ इति । अयमभिप्रायः - एकान्तैकस्वभावो बोधोऽ • भ्युपगम्यते, कर्म च तस्य प्रतिबन्धकारि नास्ति, अत एव कथं तस्य भवतां मते सूक्ष्माद्या अवस्था घटामदन्ति ?
[1
१ अनुष्टुप् । २ ३६६तमे पृष्ठे । ५ 'कर्मणो भाव' इति क-पाठः ।
[ चतुर्थः
पृष्ठे ।
३ ' तथा लोचन०' इति क- पाठः ।
४ ३६६तमे