________________
स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम् )
क्रियानिषेधस्तदभावे च तत्क्रियेति न सूक्ष्मस्य स्थूरभावः, उपचयकर्तृदलाभावादिति । एवं च सति " न चासावहेतुकः, सदा तद्भावादि
अधिकारः ]
३७७
( स्वो० व्या० )
भावे च सति तत्कृतः - प्रतिबन्धककृतः चैतन्यक्रियानिषेधस्तदभावे 'च- प्रतिबन्धकाभावे च तत्क्रिया चैतन्यक्रिया इति एवं न सूक्ष्मस्य स्थूरभावः । कुत इत्याह-उपचयकर्तृदलाभावादिति । सूक्ष्माणूनां कः स्थूरभावः ? तद्विभिन्नादृष्टादिसापेक्ष इत्यदुष्ट एव । एवं च सति 'न चासावहेतुकः, ( विवरणम् )
१०
( ६ ) चैतन्य क्रियानिषेध इति । चैतन्यव्यापारप्रतिषेधः । अयमर्थः - कर्म चेत् चैतन्यप्रतिस्खलनकारि समभ्युपेयते, तर्हि तचैतन्यव्यापारमेव निरुणद्धि, न तु चैतन्यम् । यदा च प्रतिबन्धकमपसरति, तदा चैतन्यक्रिया प्रवर्तते, न तु सर्वथा सूक्ष्मं सचैतन्यं स्थूरीभवतीति ॥
(८) उपचयकर्तृदलाभावादिति । आत्मस्वतत्त्वभूतस्य हि 'चैतन्यस्य नास्ति १५ किञ्चिद् दलमुपचयकर्तृ येन तत्प्रवेशात् सूक्ष्मं सत् स्थूरं भवेदिति ॥
( ८-९ ) सूक्ष्माणूनां कः स्थूरभावः ? तद्विभिन्नाष्टष्टादिसापेक्ष इत्यदुष्ट एवेति । ब्रह्मवादी प्राह - यद्युपचयकर्तृलसद्भावे एतत् स्थूरत्वमुपजायत इत्यङ्गीक्रियते तर्हि सूक्ष्माणूनां - प्रथमतः सूक्ष्माणूनामणूनामौदारिकवर्गणान्तर्गतानां कःकिंलक्षणः स्थूरभावः - औदारिकादिशरीरतया परिणामः आत्मव्यतिरिक्तोपचयकर्तृ - २० दलाभावेन ? न कश्चिदित्यर्थः । अत्र वृत्तिकृदुत्तरमाह - तद्विभिन्नेत्यादि । तेभ्यःअणुभ्यो विभिन्ना येऽदृष्टादयः - अदृष्ट - पुरुषकार - कालप्रभृतयः पदार्थास्तेषां सापेक्षः, तत्कृत इत्यर्थः । इति - अस्माद्धेतोरदुष्ट एव सूक्ष्माणूनां स्थूरभावः । इदमुक्तं भवति - स्याद्वादिनो मते सूक्ष्मावस्थायामप्यणवः शक्तिरूपतया स्थूलाः; न हि तस्य मते सर्वथाऽप्यसदुत्पद्यते । एवं च परमाणूनां स्थूलत्वमप्यात्मधर्म इति सिद्धं भवति । २५ सतश्च परमाणुव्यतिरिक्तादृष्टादिकारणकलाप सापेक्षं सद् यदि स्थूलत्वमाविर्भवति तदा किं दूषणम् ? | ब्रह्मवादिनस्तु एकस्वरूप एव बोधोऽदृष्टादयश्च न सम्भवन्त्येव, अतः कथं सूक्ष्मत्व-स्थूरत्वादयो विचित्रा 'बोधावस्था युज्यन्त इति ? ॥
-
१ प्रेक्ष्यतां ३६६ तमं पृष्ठं ३६७तमं च । २ 'चेतनस्य' इति क-पाठः ३ 'सूक्ष्माणूनां कः स्थूरभावः तद्विमिचादृष्टादिसापेक्ष इत्यसूक्ष्माणूनामौदारिकादिवर्गणार्न्तगतानां०' इति क - पाठः । ४ 'व्यतिरिक्तापचय ०' इति क- पाठः । ५ 'बोध्यस्याव०' इति च - पाठः । अनेकान्त० ४८