________________
अनेकान्तजयपताकाख्यं प्रकरणम् [चतुर्थः
(मूलम्), प्रसङ्गात्' इत्यायनालोचिताभिधानम्, उपादानहेतोस्तद्धिकर्तुः
असत्त्वात् तदितरस्य च तद्भेदत्वेन प्रकृतानुपयोगात् ॥ ५. किश्चालोचनाज्ञानगतः सूक्ष्मः शब्दः किं बोधात्मक उत तदतिरिक्तशब्दात्मकः ? । यदि बोधात्मका, कथमुच्यते-'ने चालोचनाज्ञानमपि न शब्दाननुविद्धम्', तज्ज्ञानमात्रत्वेन शब्दार्थानुपपत्तेः, आत्मनाऽऽत्माऽनुवेधाभिधानस्येत्थमयुक्तत्वात् ।।
(खो० व्या०) १० सदा तद्भावादिप्रसङ्गात्' इत्यपि 'पूर्वपक्षवचनमनालोचिताभिधानम् । कुत इत्याह-उपादानहेतोर्बोधस्य तदृद्धिकर्तुः-बोधवृद्धिकर्तुरसत्त्वात् तदितरस्य च--अनुपादानहेतोः प्रतिबन्धकस्य कर्मणः तद्भेदत्वेन-उपादानभिन्नतया । किमित्याह-प्रकृतानुपयोगात्-स्थूरत्वानुपयोगादिति ॥
किश्वेत्यादिनाऽभ्युच्चयमाह-किञ्च आलोचनाज्ञानगतः कोऽसौ सूक्ष्मः १५शब्दो यः सिषाधयिषितः स किं बोधात्मक उत तदतिरिक्तशब्दात्मक:बोधातिरिक्तशब्दात्मक इत्यर्थः १ । किञ्चातः १ । उभयथाऽपि दोष इत्याह-यदि बोधात्मकोऽसौ ततः किमित्याह-ततः कथमुच्यते-न चालोचनाज्ञानमपि नशब्दाननुविद्धम् ? कथमभणनमस्येत्याह-तज्ज्ञानमात्रत्वेन प्रक्रमात् तस्य
शब्दस्य बोधात्मकतया ज्ञानमात्रत्वेन हेतुना शब्दार्थानुपपत्तेः । अनुपपत्तिश्च २० आत्मनाऽऽत्मानुवेधाभिधानस्येत्थं-भिन्नवाचकापेक्षया अयुक्तत्वात् संद
प्यतन्न चालोचनाज्ञानमपि न बोधानुविद्धमित्येव युक्तम् । न चैवं मणने फलमस्ति, विवादाभावादित्यभिप्रायः॥
(विवरणम्) (२१) सदप्येतन्न चालोचनाज्ञानमपि न बोधानुविद्धमित्येव युक्तमिति । २५ सदपि-विद्यमानमपि एतन्न चालोचनाज्ञानमपि न शब्दानुविद्धमित्यभिधानं न चालोचनाज्ञानमपि (न) बोधानुविद्धमित्यनेनैवोल्लेखेन युक्तं भणितुमिति । अयमत्र परमार्थः-यद्यालोचनाज्ञानगतः सूक्ष्मशब्दोऽबोधात्मक एव, तदा न युक्तमेवैतद
१ द्रष्टव्यं ३६६ तमं पृष्ठं ३७६तमं च। २ 'मपि शब्दानुविद्धं' इति ग-पाठः। ३ 'त्मानः बोधाभिधान' इति क-पाठः। ४ ३६६-३६७तमपृष्टगतम् । ५ 'शब्दानुविद्धम्' इति क-पाठः। ६ तदप्येतन' इति ङ-पाठः। ७ 'सूक्ष्मः शब्दो' इति क-पाठः । ८'तदान' इति पाठो मास्ति च-प्रतो। ।