________________
अधिकारः] स्वोपशव्याख्यामुनिचन्द्रीयविवरणयुतम् ३७९
(मूलम्) अथ तदतिरिक्तशब्दात्मका, कथं तेन तदनुवेधः, अर्थेनास्य तादात्म्याभ्युपगमात्, तत्सूक्ष्मभावे तत्सूक्ष्मभावोपपत्तेः । अलौकिकं चैतद् यदुत सूक्ष्मावलाद्यनुविद्धमालोचनाज्ञानमिति ।५ एवं च "न चैवमालोकाद्यनुविद्धोऽवबोध इति तदङ्गत्वेऽपि नार्थतादात्म्यमस्य, न च न तदभावेऽपि स्पर्शनेन अर्थग्रहः, तथाप्रतीते, न चैवं शब्दाननुविद्वेन बोधेन तदहस्तत एव हेतोरिति शब्दार्थयोस्तादात्म्यसिद्धिः, नीलादेरिव ज्ञाने शब्दप्रतिभासनात्' इत्याद्यप्युपन्यासमात्रफलमेव, अभीष्टफलविकलत्वात् । अत्र हि १० बोधार्थयोस्तादात्म्यप्रतिषेधो बोधमात्रेण चार्थाग्रहः, चाक्षुषस्य
(खो० व्या०) द्वितीयं विकल्पमधिकृत्याह-अथ तदतिरिक्तशब्दात्मक आलोचनाज्ञानगतः सूक्ष्मशब्दः । किमित्याह-कथं तेन-शब्देन तदनुवेधः-आलोचनाज्ञानानुवेधः ? । कथं च न स्यादित्याह-अर्थेन सह अस्य-शब्दस्य तादात्म्याभ्युप-१५ गमात् कारणात् तत्सूक्ष्मभावे-शब्दसूक्ष्मभावे सति । किमित्याह-तत्सूक्ष्मभावोपपत्तेः-अर्थसूक्ष्मभावोपपत्तेः । एवमपि को दोष इत्याह-अलौकिकं चैतद् यदुत सूक्ष्मावलाद्यनुविद्धमालोचनाज्ञानमिति । एवं चेत्यादि । एवं च सति न चैवमालोकाद्यनुविद्धोऽववोध इति तदङ्गत्वेऽपि नार्थतादात्म्यमस्येत्यादि पूर्वपक्षवचनं यावत् नीलादेरिव ज्ञाने शब्दप्रति-२० भासनादित्याद्यपि किमित्याह-उपन्यासमात्रफलमेव । कुत इत्याहअभीष्टफलविकलत्वात् । एतदेवोपदर्शयति अत्र हीत्यादिना । अत्र यस्माद् बोधार्थयोस्तादात्म्यप्रतिषेधः। तथा बोधमात्रेण चार्थाग्रहः। तथा
(विवरणम्) भिधातुं यदुत न चालोचनाज्ञानमपि न शब्दानुविद्धमिति, बोधव्यतिरिक्तशब्दरूपस्य २५ कस्यचिदप्यभावेन शब्द इत्यभिधानप्रवृत्तेरभावात् । अथ कदाचिदसदभिनिवेशग्रहगृहीतैः सद्भिरित्थमप्यभिधीयते, तर्खेवं युक्तं यदुत न चालोचनाज्ञानमपि न बोधानुविद्धमिति । न चैवं भणने किश्चित् फलमुपलभामहे, ज्ञानस्य बोधरूपतया अभ्युपगमादिति ॥
१ 'सूक्ष्मशन्दसूक्ष्मभावेऽर्थसूक्ष्मभावा.' इति क-पाठोऽनादरणीयः । २ दृश्यतां ३६७तम पृष्ठम् । ३ 'सूक्ष्मः शब्दः' इति हु-पाठः ।