________________
३८०
अनेकान्तजयपताकाख्यं प्रकरणम्
[चतुर्थः (मूलम्) चार्थस्य स्पर्शनेन ग्रह इत्यैदम्पर्यम् । एतच सर्वमपि सूक्ष्मेक्षिकया निरूप्यमाणं न भवदिष्टैदम्पर्याविरोधि । तथाहि-यदि शब्दा५र्थयोस्तादात्म्यं तदाऽऽलोकस्याप्यर्थत्वेन शब्दात्मकत्वात् 'न चैवमालोकाय विद्धोऽवबोधः' इत्यनिरूपिताभिधानं शब्दस्यैव तत्त्वादिति असदेतद् यदुत नार्थतादात्म्यमस्य, शब्दतादात्म्यादेव तत्सिद्धेः इति भावनीयम् । न च बोधमात्रेणार्थाग्रहः, तन्मात्रस्यावग्रहेण ग्रहणादिति निलो ठितम् । न च चाक्षुषार्थस्य स्पर्शनेन ग्रहः, इन्द्रि१० यार्थप्रतिनियमानुपपत्तेः अन्धायभावप्रसङ्गादिति । तथा नीलादेरिव ज्ञाने शब्दप्रतिभासनादित्यनेनार्थस्य बोधाद् भेद उक्तस्ततस्तदात्मकः शब्दः कथं बोधाभिन्नो भवेदित्यलमसद्वादनिरूपणाभरेण ॥
(स्वो० व्या०) चाक्षुषस्य चार्थस्य स्पर्शनेन ग्रह इत्यैदम्पर्य वर्तते । एतच्च सर्वमपि १५ सूक्ष्मेक्षिकया निरूप्यमाणं सत् किमित्याह-न भवदिष्टैदम्पर्याविरोधि, किन्तु विरोध्यैव । यथा चैतदेवं तथा निदर्श्यते तथाहीत्यादिना । तथाहीति पूर्ववत्। यदि शब्दार्थयोस्तादात्म्यं तदाऽऽलोकस्याप्यर्थत्वेन हेतुना शब्दात्मकत्वात् कारणात् न चैवमालोकाद्यनुविद्धोऽवबोध इत्यनिरूपिताभिधानम् । कुत इत्याह-शब्दस्यैव तत्त्वात्-अर्थत्वात् इति-एवमसदे२० तत्-पूर्वोक्तं यदुत नार्थतादात्म्यमस्य-आलोकस्य । कथमसदित्याह-शब्दतादात्म्यादेव-कारणात् आलोकस्य तत्सिद्धेः-अर्थतादात्म्यसिद्धेरिति भावनीयम् । एतदुक्तं भवति-आलोकस्वार्थत्वाच्छब्देन तादात्म्यं तस्य चार्थेनेति आलोकस्याप्यर्थतादात्म्यापत्तिः । न चेत्यादि । न च बोधमात्रेणार्थाग्रहः, किन्तु ग्रह एव तन्मात्रस्य अर्थमात्रस्य अवग्रहेण-बोधमात्रेण ग्रहणादिति २५ निर्लोठितमेतत् । न चेत्यादि । न च चाक्षुषार्थस्य-रूपादेः स्पर्शनेन्द्रियेण ग्रहः । कुत इत्याह-इन्द्रियार्थप्रतिनियमानुपपत्तेः अन्यार्थस्यान्येन ग्रहणात् । एतदेवाह-अन्धाद्यभावप्रसङ्गादिति । इहैवोपपत्त्यन्तरमाह-तथा नीलादेरिव ज्ञाने शब्दप्रतिभासनादित्यनेन वचसा अर्थस्य बोधाद् भेद उक्तः । यदि नामैवं ततः किमित्याह-ततस्तदात्मकः-अर्थात्मकः शब्दः
१ 'स्याथरवेन' इति क-पाठः। २ विद्धोऽर्थावबोध' इति ग-पाठः। ३ 'इति भावनीयम्' इति पाठो न विद्यते ग-प्रता।