________________
अधिकारः] खोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
३८१ (मूलम् ) यञ्चोक्तम्-'कथं तर्हि क्षुरिकाऽनलाञ्चलादिशब्दोचारणे न वदनपाटन दाह-पूरणादयः' इत्याशङ्कय 'तद्बोधभावे पादनादिबोधाभाववत् तदवस्थाभेदहेतुत्वात् पाटनादीनाम्' इत्यादि, तदप्ययु-५ क्तम्, जैनमतापरिज्ञानात् । न खलु बौद्ध विशेषयोगाचारमतमिव विज्ञानमात्रं तत्त्वमिति जैन मतम्, अपि तु बाह्यार्थाभ्युपगमरूपमपि, ततश्चानभ्युपगतदोषाख्यानमात्रमेतदिति । आह-ननु 'बाथार्थपक्षेऽपि यत्नताक्षुरिकादिमुखावेशतदभाववत्तदवस्थाभेद
(खो० व्या) कथं बोधाभिन्नो भवेत् ? नैव भवति, एकस्सैकतो भेदाभेदायोगादित्यलमसवाद निरूपणाभरेण ॥ ___ यचोक्तं पूर्वपः-कथं तर्हि क्षुरिकेत्याद्याशय तद्बोधभावे पाटनादिबोधाभाववत् तदवस्थाभेदहेतुत्वात् पाटनादीनामित्यादि पूर्वपक्ष एव । तत् किमित्याह-तदप्ययुक्तम् । कुत इत्याह-जैनमतापरिज्ञानात् । १५ एतदेवाह न खल्वित्यादिना । नैव बौद्ध विशेषयोगाचारमतमित्यत्र सौत्रान्तिक-माध्यमिकबौद्धव्यवच्छेदेन विज्ञानवादिमतं गृह्यते तदिव विज्ञानमात्रं तत्त्वमिति जैनं मतम् , अपि तु बाह्याभ्युपगमरूपमपि जैनं मतम् । ततश्च-एवं च सति अनभ्युपगतदोषाख्यानमात्रमेतत्-परोदितं परिहारवचनमिति । आह-ननु तत्र परिहारवचने 'बाह्यार्थ- २० पक्षेऽपि यत्नतः क्षुरिकादिमुखावेशतदभाववत् तदवस्थाभेद
(विवरणम्) (११) एकस्यैकतो भेदाभेदायोगादिति । एकस्य शब्दस्य एकतो बोधात् सकाशात् भेदाभेदयोरयोगात् । इदमत्रैदम्पर्यम्-नीलादेरिव ज्ञाने शब्दप्रतिभासनादित्यनेन वचसा अर्थात्मकः शब्द इति प्रतिज्ञातं भवति । ततश्च यथाऽर्थो ज्ञानाद् २५ भिन्नः एवं शब्दोऽपि अर्थादभिन्नत्वादर्थस्वरूपवत् ; तथा यतः शब्देन संश्लिष्टमूर्तिज्ञानमभ्युपगम्यते ततो ज्ञानादभेदः प्राप्नोति ध्वनेः । इति कथमेकमेव ज्ञानमाश्रित्यैकस्यैव ध्वनेर्भेदाभेदौ स्यातामिति ? ॥
१३६७तमे पृष्ठे । २ इतः परं वदनपाटनादेरारभ्य 'किमुक्तं भवति येनोचरितेन'(पृ.३८५)पर्यन्तः पाठो न विद्यते क-प्रतो । एतत्स्थाने 'झते (१) मत्र पृष्टिकानुमानं त्यकमस्ति तेन' इत्युलेखो वर्तते । ३ 'नेवं भवलेकः' इति -पाठः। ४३६७तमे पृष्ठे। ५ 'मतमिव सौत्रा' इति -पाठः। ६ 'ज्ञानं भवति' इति क-पाठः ।