________________
३८२
अनेकान्तजयपताकाख्यं प्रकरणम्
चतुर्थः
(मूलम् ) हेतुत्वमेव पाटनादीनामिति यथोक्तदोषाभावः' इत्युक्तम् । सत्यमुक्त
मयुक्तं तूक्तम् , मत्पक्षे तदवस्थाभेदस्योपपत्तेः तव्यतिरिक्तभेदक५ भावात् । तथाहि-पुरुषप्रयत्नादयस्तद्भेदकाः। शब्दब्रह्ममात्रतत्व
वादिनः पुनरस्य तद्व्यतिरिक्तभेदकाभावेन वैचित्र्यानुपपत्तेः, निरवयवैकस्वभावत्वाभ्युपगमात् , तत्तत्वभावत्वकल्पनाऽसिद्धेः, तत्खभावस्य तद्ब्रह्ममात्रत्वात् , तस्य च तथाविचित्रत्वात् , विचित्रत्वे
च जगद्वैश्वरूपस्यैव तन्नामकरणात् । न च तद्व्यतिरिक्तभेदकभाव १० इति तदवस्थाभेदानुपपत्तेः, यत्किञ्चिदेतत्, ‘एवं शब्दब्रह्मपरिवर्तमानं जगत्" इति प्रलापमात्रम् । यच्चोक्तम्-'कथं तर्हि परं
(स्वो० व्या०) हेतुत्वमेव पाटनादीनामिति यथोक्तदोषाभावः' इत्युक्तं प्रा ।
सत्यमुक्तमयुक्तं तूक्तम् । कुत एतदित्याह-मत्पक्षे इति मत्पक्ष एव १५ तदवस्थाभेदस्य-क्षुरिकाद्यवस्थाभेदस्य उपपत्तेः । उपपत्तिश्च तव्यतिरिक्तभेदकभावात्-क्षुरिकादिव्यतिरिक्तभेदकभावात् । एतदेवाह तथाहीत्यादिना । तथाहि पुरुषप्रयत्नादयः, 'आदि'शब्दाददृष्टग्रहः तद्भेदका:-क्षुरिकादिभेदकाः इत्येवं न्याय्यः क्षुरिकादीनामवस्थाभेदः शब्दब्रह्ममात्रतत्त्ववादिनः
पुनरस्य-ब्रह्मणः "भेदकाभावेन हेतुना यत्किञ्चिदेतदिति सम्बन्धः । कथमिति २० आह-वैचित्र्यानुपपत्तेः कारणाद् द्वयमपि चैतन्निरवयवैकस्वभावत्वाभ्युपगमात् शब्दब्रह्मणः तत्तत्स्वभावत्वकल्पनाऽसिद्धेः तस्य-शब्दब्रह्मणः तत्स्वभावत्वकल्पनाऽसिद्धेः-वैचित्र्यस्वभावत्वकल्पनाऽसिद्धेः । असिद्धिश्च तत्स्वभावस्य-शब्दब्रह्मस्वभावस्य तद्ब्रह्ममात्रत्वात्-शब्दब्रह्ममात्रत्वात् तस्य च
शब्दब्रह्मणः तथा-पुरुषप्रयत्नादिभावेन विचित्रत्वात् । विचित्रत्वे च सति २५ किमित्याह-जगद्वैश्वरूपस्यैव-धर्मास्तिकायादिरूपस्य तन्नामकरणात्-शब्दब्रह्मनामकरणात् । किमित्याह-न तव्यतिरिक्तभेदकभाव इति-न शब्दब्रह्मव्यतिरिक्तभेदकभाव इति कृत्वा तदवस्थाभेदानुपपत्तेः, प्रक्रमात् क्षुरिकाद्यवस्थाभेदानुपपत्तेः । किमित्याह-यत्किश्चिदेतत्-परिहारवचनमनन्तरोदितमिति ।
एवं च सति शब्दब्रह्मपरिवर्तमानं जगदिति प्रलापमानं पूर्वपक्षवच३० नम् । यच्चोक्तम्-'कथं तर्हि परं ब्रह्म शब्दाविषयो यदाह-अतः परं
१३६७तमे पृष्ठे ३६८तमे च। २ प्रेक्ष्यतां ३६८तम पृष्टम् । ३ ३६८तमे पृष्ठे। ४ ३६७तमे पृष्ठे ३६८तमे च। ५'तद्व्यतिरिक्तभेदका.' इति वर्तितव्यमिति भाति । ६ दृश्यतां ३६८तम पृष्ठम् । ७३६८तमे पृष्ठे ।