________________
अधिकारः]
खोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
३८३
ब्रह्म शब्दाविषयो यदाह-अतः परं वाचो निवर्तन्ते' इत्याशङ्ख्य 'वाच्यवाचकभावप्रपश्चाभावतो न शब्दरूपाभावेन" इत्यादि, तदप्ययुक्तमेव, वाच्यवाचकभावप्रपञ्चरहितस्य शब्दरूपस्यानुपपत्तेः, ५ खवचनविरोधात्। तथाहि-वाच्यवाचकभावप्रपञ्चरहितं च शब्दरूपं चेति व्याहतमेतत् । न हि सद्रूपरहितं सत्त्वं नाम । अन्यच्च "अतः परं वाचो निवर्तन्ते” इतीयमपि बागेव । इयं चेत् तत्र प्रवर्तते, कथं वाच्यवाचकभावप्रपश्चाभावः । न चेत् प्रवर्तते इति, कथमपरवाचां निवृत्तिः ? । एवं च 'न खलु शब्द इन्द्रियाद्यभावे शब्द इत्य- १० गृह्यमाणः स्वसत्तां जहाति, अतो वाच्यवाचकभावातीतमिदमेव परं ब्रह्म 'इत्यपि व्युदस्तम् । ततश्च किमुच्यते-न कश्चिद् दोषः इति ? ननु दोष एव केवलः । तथाहि-यद्यपि शब्द इन्द्रियाद्यभावे शब्द इति न गृह्यते तथापि नासौ स्वसत्तां जहाति, तद्योग्यतोप
(खो० व्या०) वाचो निवर्तन्ते' इति आशङ्कय 'वाच्यवाचकभावप्रपश्चाभावतो न शब्दरूपाभावेन' इत्यादि तदप्ययुक्तमेव । कुत इत्याह-वाच्यवाचकभावप्रपञ्चरहितस्य शब्दरूपस्यानुपपत्तेः । अनुपपत्तिश्च स्ववचनविरोधात् । एनमेवाह तथाहीत्यादिना । तथाहीत्युपप्रदर्शने । वाच्यवाचकभावः प्रपञ्चरहितं च शब्दरूपं चेति व्याहतमेतत् । न हि सद्रूपरहितं सत्त्वं २० नामेति निदर्शनम् । अन्यच्च "अतः परं वाचो निवर्तन्ते” इतीयमपिएवम्भूता वागेव । यदि नामैवं ततः किमित्याह-इयं चेत् वाक् तत्र-ब्रह्मणि प्रवर्तते, कथं वाच्यवाचकभावप्रपश्चाभावः। तत्र न चेत् प्रवर्तत इति इयं वागित्येतदाशयाह-कथमपरवाचां निवृत्तिः ? तत्र ब्रह्मणि प्रतिषेधाभावादिति भावः। एवं च 'न खलु शब्द इन्द्रियाद्यभावे शब्द इत्यगृह्यमाणः २५ खसत्तां जहाति, अतो वाच्यवाचकभावातीतमिदमेव परं ब्रह्म' इत्यपि पूर्वपक्षोदितं व्युदस्तम् । ततश्च किमुच्यते-न कश्चिद् दोष इति पूर्वपक्ष एव। ननु दोष एव केवलः, उक्तनीतेः। उपचयमाह-तथाहीत्यादि । तथाहीति पूर्ववत् । यद्यपि शब्द इन्द्रियाद्यभावे सति शब्द इति-एवं न गृह्यते तथापि नासौ-शब्दः स्वसत्तां जहाति । कुत इत्याह-तद्योग्यतोपपत्तेः, ३० . १ प्रेक्ष्यतां ३६८तमं पृष्टम् । २ समीक्ष्यतां ३६४तम पृष्ठं ३.६९तमं च । .. ३ दृश्यता ३६९तमं पृष्टम् । ४ 'आशयाह वाच्यः' इति ङ-पाठः । ५ ३६८ तमे पृष्ठे ३६९तमे च प्रोक्तम् ।