________________
३८४
अनेकान्तजयपताकाख्यं प्रकरणम्
[चतुर्थः
पत्तेः, तद्रहितस्य च खसत्तायोगात् । तथाहि-य इन्द्रियेण न गृह्यते तद्रहणयोग्यताविकलश्च कथमसौ शब्दो नामेति चिन्त्यम् ॥ ५ किश्वेत्थकल्पनानिवन्ध(न)भूता तत्र शक्तिः स्याद् वा न वा। यद्यस्त्येवं तर्हि इत्थङ्कल्पनागतशब्दवाच्याऽसाविति कथं वाच्यवाचकभावातीतार्थसाधनायोदाहियते । अथ नास्ति, कथं तच्छून्ये एव इत्थङ्कल्पनाशब्दः प्रवर्तते । प्रवृत्तौ वा कथं शब्दार्थयोस्तादात्म्यं विनाऽर्थेनास्य प्रवृत्तिरित्यलं प्रसङ्गेन ॥ १० किञ्च कः पुनरयं शब्दो यस्यार्थेन तादात्म्यमिष्यते? किमत्रोच्यते
(खो० व्या) प्रक्रमादिन्द्रियग्रहणयोग्यतोपपत्ते, तद्रहितस्य च-इन्द्रियग्रहणयोग्यतारहितस्य च वसत्तायोगात् । एतद्भावनायैवाह-तथाहीत्यादि । तथाहीति पूर्ववत् ।
यः-शब्द इन्द्रियेण न गृह्यते स्वग्राहकेण तद्रहणयोग्यताविकलश्च७५ इन्द्रियग्रहणयोग्यताविकलश्च वर्तते कथमसौ शब्दो नामेति चिन्त्यम्, नैव शब्द इत्यर्थः ॥
दूषणान्तरमाह किश्चेत्यादिना । किञ्च इत्थङ्कल्पनानिवन्धनभूतान खलु शब्द इन्द्रियाद्यभावे शब्द इत्यगृह्यमाणः खसत्तां जहातीत्यादिकल्पनानिबन्धनभूता । तत्र-उदाहरणशब्दे शक्तिः सामर्थ्यलक्षणा स्याद् वा न वेति २० विकल्पौ । किञ्चातः१। उभयथाऽपि दोष इत्याह-यद्यस्ति शक्तिरेवं तहत्थिङ्कल्पनागतशब्दवाच्याऽसौ-शक्तिरिति कृत्वा कथं वाच्यवाचकभावातीतार्थसाधनाय परब्रह्मापेक्षया उदाहियते-उदाहरणत्वेनोपन्यस्यते ? । अधिकृतशब्द इति प्रक्रमः । अथ नास्त्यधिकृता शक्तिः कथं तच्छ्न्ये एवेत्थङ्कल्पना, निबन्धनशक्तिशून्य एव उदाहरणशब्द इति प्रक्रमः, इत्थम् एवं यथोक्त तथाकल्पना २५ शब्दः प्रवर्तते ? प्रवृत्तौ वा सत्यां कल्पनाशब्दस्य कथं तत्र शब्दार्थयो. स्तादात्म्यम् ? नैव कथमित्याह-विनाऽर्थेन-उदाहरणशब्दे शक्त्यभावेन अस्य कल्पनाशब्दस्य प्रवृत्तेरित्यलं प्रसङ्गन इति विरामोद्भासनमेतत् ।।
दूषणान्तरमभिधातुमाह-किञ्चेत्यादि । किञ्च कः पुनरयं शब्दो भवतोऽभिप्रेतः यस्यार्थेन सह तादात्म्यमिष्यते? । अत्राह-किमत्रोच्यते
१ 'परमब्रह्मा' इति उ-पाठः। २'तमाकल्पना.' इति क-पाठः। ३ इयं पङ्किश्चिन्या । ४ 'तत्र कथं इति ङ-पाठः। ५ 'विरागोदासनम्' इति क-पाठः। ६ 'मुच्यते' इति ऊ-पाठः ।