________________
अधिकारः] खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम् ३८५
(मूलम् ) यतासालादिमदर्थप्रतिपत्तिरिति। आह च भाष्यकार:-"येनोचरितेन साला-लाङ्गल-ककुद-खुर-विषाणिनां सम्प्रत्ययो भवति स शब्दा, वर्णेभ्यस्तत्सम्प्रत्ययानुपपत्तेः” । एकाकारो ह्ययं नानेकेभ्यो वर्णेभ्यो भवितुमर्हति, अनेकेभ्योऽनेकप्रत्ययभावात् । अयं च स्फोटरूप एक एवेति युक्तोऽस्माद् यथोदितसम्प्रत्ययः । आह
(खो० व्या०) प्रसिद्ध एष यतः सकाशात् सास्लादिमदर्थप्रतिपत्तिः-गवादिप्रतिपत्तिरिति । आह च भाष्यकार:-पतञ्जलि:-येनोच्चरितेन साला-लाल-ककुद-११ खुर-विषाणिनां-गवादीनां पदार्थानां सम्बन्धी सम्प्रत्ययो भवतिअविपरीतबोधो भवति स शब्दः। कुत एतदित्याह-वर्णेभ्य इत्यादि । वर्णेभ्यःगकारौकारविसर्जनीयादिभ्यः तत्सम्प्रत्ययानुपपत्तेः-गौरित्यादिशब्दसम्प्रत्ययानुपपत्तेः । अनुपपत्तिमेवाह-एकाकारो ह्ययं-गौरित्यादिशब्दसम्प्रत्ययः । यदि नामैवं ततः किमित्याह-नानेकेभ्यो वर्णेभ्यः-गकारादिभ्यो भवितु-१५ मर्हति । कुंत इत्याह-अनेकेभ्य आलम्बनेभ्यः । किमित्याह-अनेकप्रत्ययभावात् । अनेकप्रत्ययग्राह्यमेवानेकत्वम् । यदि पुनरेकप्रत्ययग्राह्यमपि स्यादेवं तर्खेकत्वमप्यनेकप्रत्ययग्राह्यमिति व्यवस्थाऽनुपपत्तिः । तदेवं यतोऽयमेकाकारः सम्प्रत्ययः स शब्द इत्यनन्तरोदितैदम्पर्यम् । एवमेकरूपैः शब्द इति स्थिते सत्याह-अयं चेत्यादि । अयं च-शब्दः स्फोटरूपः--अर्थविकाशरूप एक एवेति कृत्वा २० युक्तोऽस्मात्-स्फोटरूपशब्दात् प्रत्यक्षादेव "अर्थापत्तिगम्यात्" इति च केचित् ,
(विवरणम्) (२०) अर्थविकाशरूप एक एंवेति कृत्वेति । अयमत्राभिप्रायः स्फुट ति–व्यक्तो भवत्यस्मादर्थ इति स्फोट:-अर्थविकाश एव । अयं च त्रिष्वपि कालेष्व विचलितरूप एक एव । यथाहि-देवदत्तशरीरे प्रस्वेदबिन्दवो निमज्जन्ति उन्मज्जन्ति च; देवदत्त- २५ शरीरं त्वेकाकारं सर्वास्ववस्थासु । एवं स्फोटेऽपि सर्वदा एकरूपे गकारौकारादयो वर्णाः प्रवेदकल्पा एव, स तु तेभ्यो विलक्षणाकारोऽन्य एवेति । अयं च स्फोटः केषाश्चिन्मते 'श्रोतृप्रत्यक्षगम्यः, अन्येषां तु मतेऽर्थापत्त्यवसेयः । तथाहि-अस्ति कश्चित् स्फोटाख्यः पदार्थः, अर्थप्रकाशान्यथानुपपत्तेरिति ॥
१ 'चारितेन सता साना.' इति -पाठः। २ 'कुत इत्याह' इति पाठो नास्ति क-प्रतौ । ३ 'रूपशब्द' इति क-पाठः। ४ 'व्यक्तीभवति' इति क-पाठः। ५ 'रूपेण गकारी.' इति कपाठः। ६ 'श्रोत्रप्रत्यक्ष०' इति क-पाठः।
अनेकान्त०४९