________________
३८६ अनेकान्तजयपताकाख्यं प्रकरणम्
[चतुर्थ: (मूलम्) कुतोऽयमुत्पद्यते ? । नन्वयं नित्यः सर्वगतो नोत्पद्यत एव । आहकिमित्यतो न सदा सर्वत्र सम्प्रत्ययः ? हन्ताभिव्यञ्जकाभावेन । ५ अभिव्यञ्जकाश्चास्य ध्वनयः, तेऽपि पुरुषप्रयत्नसापेक्षा इति न सदा सम्प्रत्ययः । आह-स किमेकध्वनिव्यङ्गयोऽनेकध्वनिव्यङ्गयोऽपि? । किश्चातः? । अनेकध्वनिव्यङ्गयत्वे सदेशता-ऽनभिव्यक्त्यादि ।
(स्वो० व्या०) यथोदितसम्प्रत्ययः-सास्त्रा-लाफूल-ककुद-खुर-विषाण्यर्थसम्प्रत्यय इति । आह १० परः कुतोऽयमुत्पद्यते स्फोटः । अत्रोत्तरम्-नन्वयं नित्यः सर्वगतो नोत्पद्यत एव । आह-किमित्यत:-नित्यात् सर्वगतात् न सदा-सर्वकालं सर्वत्र-देशे सम्प्रत्ययः सामर्थ्यादेतदालम्बन एव? । एतदाशङ्कयाह-हन्ताभिव्यञ्जकाभावेन अभिव्यक्तोऽयं सम्प्रत्ययहेतुः । अभिव्यञ्जकाश्चास्यस्फोटस्य ध्वनयः-वायवीया विकाराः । ते च पुरुषप्रयत्नसापेक्षा ध्वनय ५ इति कृत्वा न सदा सम्प्रत्ययः-एतदालम्बनः । 'सदा'ग्रहणं सर्वत्रोपलक्षणम् ।
आह-स:-स्फोटः किमनेकध्वनिव्यङ्गय उतैकध्वनिव्यङ्गयः-उतैकध्वनिव्यङ्गयोऽपि । किश्चातः? । उभयथाऽपि दोष इत्याह-अनेकध्वनिव्यङ्ग्यत्वेऽभ्युपगम्यमाने । किमित्याह-सदेशता-ऽनभिव्यत्तयादि सदेशता एकैकेन ध्वनिना एकैकदेशाभिव्यक्तेः अनभिव्यक्तिश्च एकेनानभिव्यक्तौ तस्यानभिव्यञ्जकत्वात् २० तद्वदन्येषामपि ध्वनित्वादनभिव्यञ्जकत्वमिति कृत्वा । 'आदि'शब्दात् अनेकाभिव्यक्तिपरिग्रहः । तदेकैकस्याभिव्यञ्जकत्वात् तथा च धर्मिभेद इति यत्किञ्चिदेतत् ॥
(विवरणम्) (२०-२१) अनेकाभिव्यक्तिपरिग्रह इति । अनेकेभ्यो ध्वनिभ्योऽभिव्यक्ति. स्तस्याः परिग्रहः। ध्वनयश्च वायुविशेषा अत्र गृह्यन्ते । ततो यदा बहुध्वनिव्यङ्ग्यखभा२५ वोऽभ्युपगम्यते स्फोटस्तदा एकेन ध्वनिना परिपूर्ण एव स्फोटोऽन्यथाऽभिव्यज्यतेऽन्येन
चान्यस्वभावः । एवं बहवः स्फोटा एकस्मिन्नेव स्फोटे प्राप्ताः । अत्रैव हेतुमाह(२१) तदेकैकस्याभिव्यञ्जकत्वादिति । तेषां-ध्वनीनां मध्यादेकैकस्य ध्वनेरभिव्यञ्जकत्वात् सर्वेषां ध्वनीनां स्फोटाभिव्यञ्जकत्वात् ॥
(२१) तथा च धर्मिभेद इतीति । तथा च--अनेकध्वनिव्यङ्ग्यत्वे पुनः स्फोटस्य ३० धर्मिभेदः स्फोटबहुत्वापत्तिलक्षणः। अनेकत्वं हि ध्वनीनां भिन्नस्वभावत्वे सति
१ अयं पाठश्चिन्त्यः, ३९३तमे पृष्ठेऽन्यथादर्शनात् ।