________________
३८७
अधिकारः] खोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम्) एकध्वनिव्यङ्ग्यत्वे तु शेषवैयर्थ्यम् , एकाभिव्यक्तादेव, ततस्तत्सम्प्रत्ययसिद्धेः। यत्किञ्चिदेतत् , निरवयवत्वेन सदेशताऽयोगात् । एकध्वनिव्यङ्ग्यत्वेऽपि च सकृच्छ्रुतानुवाकवदनेकव्यक्तिग्रहणोपपत्तेः ।। ध्वनिसंस्कृतं चेन्द्रियं स्फोटं गृह्णातीति न सर्वत्र तत्सम्प्रत्यय इति ।
(स्वो० व्या०) द्वितीयं विकल्पमधिकृत्याह-एकध्वनिव्यङ्गयत्वे तु स्फोटस्वाभ्युपगम्यमाने शेषवैयर्थ्यम् । कुत इत्याह-एकाभिव्यक्तादेव, प्रक्रमादेको ध्वनिरेव गृह्यते । तत इति स्फोटात् तत्सम्प्रत्ययसिद्धेः-साना-लाल-ककुद-खुर-विषाणिप्रत्यय-१० सिद्धेः । एवं पूर्वपक्षमाशक्य पूर्वपक्षे बाधे चाह-यत्किञ्चिदेतत्-अनन्तरोदितम् , असारमित्यर्थः । कुत इत्याह-निरवयवत्वेन स्फोटस्य सदेशताऽयोगात् । एकध्वनिव्यङ्ग्यत्वेऽपि च द्वितीयपक्षापेक्षया सकृछुतानुवाकवदिति निदर्शनम् । किमित्याह-अनेकव्यक्तिग्रहणोपपत्तेः, अनेकेभ्यो व्यक्तिध्वनिभ्य इति प्रक्रमः । अनेकव्यक्तिस्तस्या ग्रहणमिति विग्रहस्तदुपपत्तेः । उक्तं च भर्तृ-१५ हरिणा-“यथाऽनुवाकः श्लोको वा" इति सर्वत्र स्फोटासम्प्रत्यये निमित्तमाह-ध्वनिसंस्कृतं चेन्द्रियं स्फोटं गृह्णातीति कृत्वा न सर्वत्र-देशे तत्सम्प्रत्ययः,
(विवरणम्) युज्यते, अन्यथैकत्वमेव स्यात् । ततो भिन्नस्वभावैर्ध्वनिभिः प्रत्येकमभिव्यज्यमानः स्फोटोऽपि भिन्नस्वभावः स्यात् । तथा चैकस्मिन्नेव स्फोटे बहवः स्फोटा इति स्फुटं २० धर्मिभेदः ॥
(१३-१४) सकृत् श्रुतानुवाकवदिति निदर्शनमिति । अनुवाकः-वैदिकं वाक्यं ततो यथा “पुरुष एवेदं निं" इत्यादि वेदवाक्यमेकेन ध्वनिना अभिव्यक्तमपि कालान्तरे पुनरन्येन ध्वनिनाऽभिव्यज्यते । एवं स्फोटोऽपि एकदा एकेन ध्वनिनाऽभिव्यक्तोऽपि कालान्तरे यद्यन्यैर्ध्वनिभिरभिव्यज्यते तदा किं दूषणं स्यात् ? अतः परमार्थतो मूल- २५ ध्वनिनवाभिव्यज्यते स्फोट इति सिद्धं भवति । इतरे तु ध्वनयोऽभिव्यक्तस्यैवा. भिव्यञ्जका इति ॥ (१६) यथाऽनुवाकः श्लोको वेति । अनुवाको व्याख्यात एव । श्लोकस्तु
"श्रयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम् ।
आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥" इत्यादिः । श्लोकोऽप्येकदा एकध्वनिनाऽभिव्यक्तः कालान्तरेऽन्यैरभिव्यज्यत एवेत्यर्थः ।। .. १ 'ध्वनिः संस्कृत' इति ङ-पाठः। २ 'स्यात् तथा च अनेकध्वनिव्यङ्गत्वे पुनः स्फो(?)मानः स्फोटा (३) पि भिन्नखभावः स्यात् तथा चैक०' इति ख-च-पाठः। ३ 'भवि' इति क-पाठः ।