________________
૨૦૦
अनेकान्तजयपताकाख्यं प्रकरणम्
(मूलम् )
[ चतुर्थः
अत्रोच्यते - सर्वमिदमयुक्तम्, अनालोचिताभिधानात् । तत्र यत् तावदुक्तम्- 'यतः सास्नादिमदर्थप्रतिपत्तिरित्याह च भाष्यकार:५ येनोच्चरितेन' इत्यादि, अत्र किमिदमुच्चारणं नाम ? । नन्वभिव्यक्तिरिति । किमुक्तं भवति येनोच्चरितेन ? येनाभिव्यक्तेनेति । हन्तालौकिकः शब्दार्थः । का चेयमभिव्यक्तिर्नाम ? इन्द्रियग्राह्यखभावता । किं नेयमस्य स्वतत्त्वम् ? न न, किन्त्वावृतेति । किमस्यावरणम् ? श्रोत्रविद्या । कुतस्तदपगमः ? वक्तृध्वनेः । किमत्र मानम् ? स्फोटोप१० लब्धिः । किं न सदेयम् ? भूयोऽविद्यातः । कुतोऽसौ ? द्रागेव तम इव दीपा भावे ध्वन्यभावतः । किं स्फोटस्याविद्या भावाभावयोरस्ति
( खो० व्या० )
तत्संस्कारकस्य नियतत्वादिति अभिप्रायः । एतेन भिन्नदेशश्रोतॄणामिन्द्रिय संस्काराभाव उक्तो वेदितव्य इति पूर्वपक्ष: । अत्रोत्तरमाह अत्रोच्यत इत्यादिना । सर्व१५ मिदम् - अनन्तरोदितमयुक्तम् । कुत इत्याह- अनालोचिताभिधानात् । एतदेव दर्शयति तत्र यत् तावदुक्तमित्यादिना । किमुक्तमित्याह यतः सास्नादिमदर्थप्रतिपत्तिरित्याह च भाष्यकारः - पतञ्जलिः येनोचरितेनेत्यादि । अ- भाष्यकारवाक्ये किमिदमुच्चारणं नाम ? । नैन्वभिव्यक्तिरिति परः । स एवाह किमुक्तं भवति येनोच्चरितेनेति ? अस्यार्थमाह-येना२० भिव्यक्तेनेति । एतदाशङ्कयाह - हन्तालौकिकः शब्दार्थो यदुतोश्चरणमभिव्यक्तिरिति । तथा का वेयमभिव्यक्तिर्नाम ? इन्द्रियग्राह्यस्वभावता, प्रक्रमात् स्फोटस्य । एतदाशङ्कयाह- किं नेयम् - इन्द्रियग्राह्यस्वभावता अस्य - स्फोटस्य स्वतत्त्वं-रूपम् ? । न-नेति । किं तर्हि स्वतत्त्वं किन्त्वावृता इन्द्रियग्राह्यस्वभावताऽस्य इति । एतदाशङ्कयाह - किमस्य - स्वतत्त्वस्य सत आवरणम् ? श्रोत्रविद्येति, २५ श्रोतुरज्ञानमित्यर्थः । एतदाशङ्कयाह - कुतः - कस्माद्धेतोस्तदपगमः - आवरणाख्याविद्यापगमः ? वक्तृध्वनेरिति वक्तुः सम्बन्धिनः शब्दादित्यर्थः । एतदाशङ्कयाहकिमत्र मानं यदुत वक्तृध्वनेस्तदपगम इति ? स्फोटोपलब्धिस्तथैकरूपप्रतिभासमाना । एतदाशङ्कयाह- किं न सदेयं स्फोटोपलब्धिः ? भूयोऽविद्यातः कारणात् न सदेयम् । एतदाशवाह - कुतोऽसौ - अविद्या? द्रागेव तम इव दीपाभावे ३० सति ध्वन्यभावतो द्रागेवासौ । एतदाशङ्कयाह- किं स्फोटस्याविद्या भावा
१ ३८५ तमे पृष्ठे । २ ' व्यक्तिः, इन्द्रियः' इति ग-पाठः । ३ 'न त्वभि०' इति ऊ-पाठः