________________
अधिकारः] स्योपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम्) कश्चित् स्वभावभेदः किं वा न ?। यद्यस्त्यनित्यता, खभावान्तरोपमर्दन स्वभावान्तरापत्तेः। इष्यते एवेयमीदशीति चेत्, नित्यप्रतिज्ञाव्याघाता, परिणामवादापत्तेः । अथ नास्ति, सदा ग्रहणादि-५ प्रसङ्गः,तद्वाद्यतायेकखभावत्वान्यथाऽनुपपत्तेः। अविद्याभावे ग्राह्यतैकस्वभाव एवायमित्यप्यसत्, सदा तदभावेन तद्रहणप्रसङ्गादिति अतिसूक्ष्ममतिविषयमेतत् ॥
किञ्च येनोच्चरितेनेत्यत्र वर्णात्मकेन शब्देनोचरितेन यथाक्षयोपशममसौ सम्प्रत्ययो भवति, तथाऽनुभूतेः, गकारादिदलगोशब्द-१०
(स्त्रो० व्या०) भावयोः अविद्याया भावेऽभावे च अस्ति कश्चित्-स्वल्पोऽपि खभावभेदः किं वा न?। किञ्चातः? । उभयथाऽपि दोष इत्याह-यद्यस्त्यनित्यता स्फोटस्य । कुत इत्याह-खभावान्तरोपमर्दैन स्वभावान्तरापत्तेः । इष्यते एवेयम्अनित्यता ईदृशी-परिणामरूपा । इति चेत्, एतदाशङ्कयाह-नित्यप्रतिज्ञा-१५ व्याघातः, स्फोटस्येति प्रक्रमः । कुत इत्याह-परिणामवादापत्तेः । अथ नास्ति स्वभावभेदः अविद्याभावाभावयोः । एतदाशक्याह-सदा ग्रहणादिप्रसङ्गः ग्रहणमग्रहणं वा स्फोटस्य । कुत इत्याह-तद्राह्यतायेकखभावत्वान्यथाऽनुपपत्तेः। तस्य-स्फोटस्य ग्राह्यतादिः, 'आदि'शब्दादग्राह्यतादिग्रहः, एकः स्वभावो यस्य स तथा तद्भावस्तग्राह्यतायेकवभावत्वं तस्यान्यथाऽनुपपत्तिस्तत इति हेतोः । २० तथाहि-यवसावविद्या भावाभावयोग्राह्यतैकस्वभावः सदा ग्रहणम् , अथाग्राह्यतैकस्वभावः सदैवाग्रहणमिति भावनीयम् । अविद्याभावे ग्राह्यतैकखभाव एवायं-स्फोट इत्यप्यसत्-अशोभनम् । कुत इत्याह-सदा तदभावेनअविद्याभावेन तत्तत्स्वभावताक्षिप्तेन तद्रहणप्रसङ्गात्-स्फोटग्रहणप्रसङ्गादिति अतिसूक्ष्ममतिविषयमेतत् । तथाहि-नाविद्याभावे ग्राह्यतैकस्वभावताऽस्य २५ सदा विद्याभावे ग्रहणे वा सत्युपपद्यत इति भावनीयम् ॥
अभ्युच्चयमाह किञ्च येनेत्यादिना । किञ्च येन उच्चरितेनेत्यत्र-व्यतिकरे वर्णात्मकेन शब्देनोचरितेन सता यथाक्षयोपशम, यस्य यथा क्षयोपशम इति असौ सम्प्रत्ययो भवति अनन्तरोदितः । कुत एतदित्याह-तथाऽनुभूते।
१'मर्दमेन' इति क-पाठः। २ 'भूतैः गकारा०' इति क-पाठः।