________________
अनेकान्तजयपताकाख्यं प्रकरणम्
[चतुर्थः (मूलम् ) संवेदनात् तद्व्यतिरिक्तस्य चापरस्याक्रमवत एकस्यासंवेदनात् । तथाहि-गौरित्यत्र गकारौकारविसर्जनीयवर्णप्रतिभास्येव तत्सम्प्रत्ययः, ५कथमयमुचरितध्वंसिभ्य एतेभ्यः तथा इतरेतरप्रतिबद्धखभावतया
आत्मनि बोधकरणेन ? । न च क्रमभाविनां तथाबोधकरणविरोधः, तस्यापि क्रमेणैव तथाभवनात्, अझैचरितविरामेऽभावात् । ध्वनेश्चैकत्वाभ्युपगमेनार्दोचरितत्वासम्भवः, तदनेकत्वेऽपि स्फोटेकत्वतः,
अ भिव्यत्ययोग इति भावनीयमेतत्। एवं च 'वर्णेभ्यस्तत्सम्प्रत्य१० यानुपपत्तेः' इत्ययुक्तम् , उक्तवदुपपत्तियोगात् । नैकाकार एवायम् । किं तर्हि ? एकानेकाकारः, गकारादिवर्णात्मकगोशब्दवेदनात् तथा
(स्वो० व्या०) एनामेवाह-गकारादिलगोशब्दसंवेदनात् मृद्दलघटवत् तद्व्यतिरिक्तस्य
च-गकारादिवर्णव्यतिरिक्तस्य च अपरस्य-स्फोटादेः अक्रमवत एकस्य । १५ किमित्याह-असंवेदनात् कारणात् । एतदेव भावयति तथाहीत्यादिना । तथाहीति पूर्ववत् । गौरित्यत्र-शब्दे गकारौकारविसर्जनीयवर्णप्रतिभास्येव तत्सम्प्रत्यय:-शब्दसम्प्रत्ययः । आह-कथमयम्-एकरूप उच्चरितध्वंसिभ्य एतेभ्यो वर्णेभ्यः? । एतदाशङ्कयाह-तथेत्यादि । तथा पौर्वापर्यभावेन इतरे
तरप्रतिबद्धखभावतया कारणेन । आत्मनि-जीवे बोधकरणेन हेतुना २० अयमुच्चरितध्वंसिभ्य एतेभ्य इति । न चेत्यादि । न च क्रमभाविनां-गकारादीनां तथा-क्रमेणैव बोधकरणविरोधः। कुत इत्याह-तस्यापि-बोधस्य क्रमेणैव तथा-इतरेतरबोधप्रतिबन्धेन भवनात् । इत्थं चैतदङ्गीकर्तव्यमित्याहअझैचरितविरामे सति अभावादधिकृतबोधस्य । ध्वनेश्चैकत्वाभ्युपगमेन
परदर्शने किमित्याह-अझैचरितत्वासम्भवः, तदनेकत्वेऽपि-ध्वन्यनेक२५ त्वेऽपि स्फोटैकत्वतः कारणात् । किमित्याह-अर्धाभिव्यत्तययोग इति
भावनीयमेतत् । दृश्यते चार्द्धाभिव्यक्तिकार्यमित्यभिप्रायः । एवं च कृत्वा वर्णेभ्यस्तत्सम्प्रत्ययानुपपत्तेरित्ययुक्तं पूर्वपक्षवचनम् । कुत इत्याहउक्तवत्-यथोक्तम् । तथा किमित्याह-उपपत्तियोगात् वर्णेभ्यस्तत्सम्प्रत्ययस्य । एतत्समर्थनार्यवाह-नैकाकार एवायम्-अधिकृतप्रत्ययः । किं तर्हि ? एका. ३० नेकाकारः । कुत एतदेवमित्याह-गकारादिवर्णात्मकगोशब्दवेदनात्
१ ‘भाविताना' इति क-पाठः । २ दृश्यतां ३८५तम पृष्ठम् । ३ प्रेक्ष्यतां ३८५तम पृष्ठम् । ४ 'कुत इत्या(?)देव मित्याह' इवि. ङ-पाठः।