________________
अधिकारः] खोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम्) दीर्घकालेनैव तत्तद्वर्णजबोधान्वयाविरोधादित्यतः किमुच्यते नानेकेभ्यो भवितुमर्हति, तथाऽनेकात्मकस्यान्यथाभवनायोगात् ॥
एवं च "अनेकेभ्योऽनेकप्रत्ययभावात्' इत्यपि वचनमात्रम्, तेषां ५ तथाप्रतिबद्धस्वभावतयैकान्ततोऽनेकत्वासिद्धेः । तदितराक्षेपकस्वभाववन्तो ह्यमी एकानेकरूपास्तथैव च प्रतिभासन्त इति न कश्चिद् दोषः । यच्चोक्तम्-'अयं च स्फोटरूप एक एवेति युक्तोऽस्माद् यथोदितसम्प्रत्ययः' इत्येतदप्यचारु, एकस्यासंवेदनादित्युक्तप्रायम् । यच्चोक्तम्-'आह-कुतोऽयमुत्पद्यते' इत्येतदाशय 'नन्वयं नित्यः सर्व-१० गतो नोत्पद्यत एवं' इति, एतदप्ययुक्तम् ,नित्यसर्वगतत्वेऽस्य प्रमाणाभावात् , नित्यस्य सर्वथैकखभावत्वेन प्रमाणपरिच्छेद्यखभावत्वे
(स्वो० व्या ) तथा-क्रमणेतरेतरप्रतिबन्धता दीर्घकालेनैव । कथमित्याह-तत्तद्वर्णजयोधान्वयाविरोधात्-गकारादिवर्णजबोधान्वयाविरोधात् इत्यतः किमुच्यते नाने-१५ केभ्यो वर्णेभ्यो भवितुमर्हति अधिकृतप्रत्ययः ? । नन्वहत्येवेति भावनीयम् , तथाऽनेकात्मकस्य वर्णदलतया अन्यथा-निरंशैकभवनेन भवनायोगात् । न ह्येकस्मादनेको भवितुमर्हति इत्येकपरमाणोरिव घटप्रत्यय इति ॥ ..
एवं चानेकेभ्योऽनेकप्रत्ययभावादित्यपि वचनमानं पूर्वपक्षवचनम् । कुत इत्याह-तेषां-वर्णानां तथा-क्रमभावित्वेन प्रतिबद्धखभावतया कारणेन २० एकान्ततः-एकान्तेन अनेकत्वासिद्धेः। तथाहि-तदितराक्षेपकस्वभाववन्तो ह्यमी-गकारादयस्तद् यथा गकार औकाराक्षेपकस्वभाव इत्यादि । अत एकानेकरूपा अमी तथैव च प्रतिभासन्ते एकानेकरूपतयेति न कश्चिदू दोषः । यचोक्तं पूर्वपक्षग्रन्थे-'अयं च स्फोटरूप एक एवेति युक्तः अस्माद् यथोदितसम्प्रत्ययः' इत्येदप्यचारु । कुत इत्याह-एकस्यासं-२५ वेदनादित्युक्तप्रायं-प्रायेणोक्तम् । यच्चोक्तं पूर्वपक्ष एव आह-कुतोऽयमुत्पद्यत इति, एतदाशङ्कयाह-नन्वयं नित्यः सर्वगतो नोत्पद्यत एवेत्येतदप्ययुक्तम् । कुत इत्याह-नित्यसर्वगतत्वेऽस्य-स्फोटस्य प्रमाणाभावात् । अभावश्च नित्यस्य स्फोटस्य सर्वेथैकखभावत्वेन हेतुना प्रमाणपरिच्छेद्य
१ समीक्ष्यतां ३८५तम पृष्ठम् । २ ३८५तमे पृष्ठे । ३ ३८५तमे पृष्ठे ३८६तमे च। ४ 'बघतो दीर्घः' इति -पाठः। ५ 'कृत्यप्रत्ययः' इति उ-पाठः । ६ 'भावत्वेऽपि प्रति०' इति हु-पाठः । ७ ३८५तमे पृष्ठे। ८ ३८६तमे पृष्ठे ।