________________
३९२
अनेकान्तजयपताकाख्यं प्रकरणम्
[ चतुर्थः (मूलम् ) सर्वदा सर्वपरिच्छेदापत्तेः, अन्यथा नित्यत्वायोगात्, कदाचित् केनचिद् ग्रहणे तग्राह्यखभावत्ववत् तदन्यग्राह्यखभावत्वा५भावाद् भावे वा कदाचित् केनचिदू ग्रहणवत् तदन्यग्रहणापत्तेः,
अभावे चान्यदा तदभावात् तत्तथाभवनेन परिणामवादापत्तिरेवेति । एतेन यदप्याई-'किमित्यतो न सदा सर्वत्र तत्सम्प्रत्ययः' इत्याशङ्कयोक्तम्-'हन्ताभिव्यञ्जकाभावेन अभिव्यञ्जकाश्चास्य ध्वनयस्ते च पुरुषप्रयत्नसापेक्षा इति न सदा तत्सम्प्रत्ययः' इत्येतद१० प्ययुक्तम् , अभिव्यक्तेरेवोक्तवदसिद्धेः। ध्वनयश्च वर्णात्मका एव, तव्यतिरेकेण तत्स्वरूपासिद्धेः। कलकले तन्मात्रग्रहणात् तत्
(खो० व्या०) स्वभावत्वे सति सर्वदा सर्वपरिच्छेदापत्तेः तथा तदेकस्वभावत्वादिति
हृदयम् ; अन्यथा नित्यत्वायोगात्। अयोगश्च कदाचित्-काले केनचित्१५ प्रमात्रा ग्रहणे सति तद्ग्राथवभावत्ववदिति निदर्शनम् । तदन्यग्राह्य
खभावत्वाभावात्-अन्यदा अन्येन ग्राह्यस्वभावत्वाभावाद् भावे वा अधिकृतग्राह्यस्वभावस्य किमित्याह-कदाचित् केनचिदू ग्रहणवदिति निदर्शनम् । तदन्यग्रहणापत्तेः-अन्यदाऽन्यग्रहणापत्तेः अभावे च अन्यदाऽन्येन ग्रहणस्य । किमित्याह-अन्यदा तदभावात्-अन्यदाऽन्येन ग्राह्यस्वभावाभावात् तस्यैव तदा २० केनचिद ग्राह्यस्वभावस्य सतः तथाभवनेन-अन्यदाऽन्यग्राह्यस्वभावभवनेन । किमित्याह-परिणामवादापत्तिरेवेत्यत्र चोक्तो दोषो नित्यप्रतिज्ञाव्याघातादिः । एतेन यदप्याह-'किमित्यतो न सदा सर्वत्र तत्सम्प्रत्यय इति आशङ्कयोक्तम्-'हन्ताभिव्यञ्जकाभावेन' इत्यादि, तदप्ययुक्तम् । कुत इत्याह-अभिव्यक्तरेवोक्तवत्-यथोक्तं तथाऽसिद्धेः। तथा ध्वनयश्च २५ भवत्परिकल्पिता वर्णात्मका एव । कुत इत्याह-तव्यतिरेकेण-वर्णव्यतिरेकेण तत्स्वरूपासिद्धेः-ध्वनिस्वरूपासिद्धेः, वर्णाश्रयं तद्ब्रहणमिति प्रतीतेः । आहकलकले तन्मात्रग्रहणात् कारणात् तत्सिद्धिः-ध्वनिसिद्धिः । वास्तु
(विवरणम् ) (२७) कलकले तन्मात्रग्रहणादिति । कलकले हि ध्वनिमात्रमेव प्रतीयते, ३. न तु वर्णा इति परस्याशयः। ननु स्फोटस्तावन्नित्य एकरूपो भिन्नो वनिभ्यः ।
१'सदा सर्व.' इति ग-पाठः। २३८६तमे पृष्ठे। ३ 'सर्वदा सर्वत्र' इति ग-पाठः। ४ ३८६तमे पृष्ठे । ५ दृश्यतां ३८९तम पृष्ठम् । ६ ३८६तमे पृष्ठे। ७३८६तमे पृष्ठे । "म्बनिः सः' इति क-पाठः।