________________
३९३
अधिकारः] स्योपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम्) सिद्धिः। वर्णास्तु स्फोटप्रस्खेदसंस्थानीया इति चेत्, न, अविचारितरमणीयत्वात् । कलकलो हि तत्समुदायधर्मः, तद्भावभावित्वात्। तत्समानपरिणाममात्ररूपो ह्ययम् , अत एव श्रोत्रेण ५ गृह्यते, अन्यथाऽशब्दत्वात् कथमस्य श्रोत्रेण ग्रह इति चिन्त्यम् । स्फोटप्रस्वेदसंस्थानीयत्वे च वर्णानां तदनित्यतापत्तिः, तदात्मभूतप्रस्खेदगलनादिति । एतेन "स किमनेकध्वनिव्यङ्गय उतैकध्वनिव्यङ्गयः' इत्याद्याशक्य यदुक्तं यत्किञ्चिदेतन्निरवयवत्वेन सदेशताऽयोगात्' इत्यादि, तदपि वस्तुतः परिहृतमेव, परिहृतेन तुल्ययोग-१०
(खो० व्या०) स्फोटप्रखेदसंस्थानीया वर्तन्ते । इति चेत्, एतदाशङ्कयाह-न, अविचारितरमणीयत्वात् । एतद्भावनायैवाह-कलकलो हि तत्समुदायधर्म:वर्णसमुदायधर्मः । कुत इत्याह-तभावभावित्वात्-वर्णभावभावित्वात् कलकलस्य तत्समानपरिणाममात्ररूपो ह्ययं-कलकलः । अत एव १५ कारणात् श्रोत्रेण गृह्यते । इत्थं चैतदङ्गीकर्तव्यमित्याह-अन्यथाएवमनभ्युपगमे अशब्दत्वात् कारणात् कथमस्य-ध्वनेः श्रोत्रेण ग्रह इति चिन्त्यम् । तथा स्फोटप्रखेदसंस्थानीयत्वे च वर्णानामभ्युपगम्यमाने किमित्याह-तदनित्यतापत्ति:-स्फोटानित्यतापत्तिः । कुत इत्याह-तदात्मभूतप्रखेदगलनात्, स्फोटात्मभूतस्य खेदस्य गलनादिति । एतेन-अन-२० न्तरोदितेन 'स किमनेकध्वनिव्यङ्ग्य उतैकध्वनिव्यङ्ग्यः' इत्याद्याशङ्ख्य यदुक्तं पूर्वपक्षे-'यत्किञ्चिदेतन्निरवयवत्वेन सदेशताऽयोगात् इत्यादि, तदपि वस्तुत:-परमार्थेन परिहृतमेव । कुत इत्याह-परि
(विवरणम्) यदा च वर्णेभ्योऽपि भिन्नो ध्वनिस्तदा वर्णाः किस्वरूपा इत्याशङ्कय पर एवाह- २५ (पृ. ३९२, पं. २७; पृ. ३९३, पं. १२) वर्णास्तु स्फोटप्रस्वेदसंस्थानीया इति । व्याख्यातं चैतदर्थतः प्राक् ॥
(२०) स्वेदस्य गलनादिति । यथाहि-देवदत्तशरीराद् गलत्प्रस्खेदविन्दुषु विकारः कश्चिदवश्यं तस्य स्यात् , विकारभवने च स्फुटैवानित्यतेति ॥
१ 'ग्रहणमिति' इति ग-पाठः। २ दृश्यतां ३८६तम पृष्ठम् । ३ ३८७तमे पृष्ठे। ४ 'खेदगलनात्' इति क-पाठः। ५ ३८७तमे पृष्ठे । ६ 'यदुक्तं' इत्यधिको रू-पाठः ।
अनेकान्त. ५०