________________
अनेकान्तजयपताकाख्यं प्रकरणम्
( मूलम् )
क्षेमत्वात् । नवरं 'ध्वनिसंस्कृतं चेन्द्रियं स्फोटं गृह्णातीति न सर्वत्र तत्सम्प्रत्ययः' इति यदुक्तम्, अत्रोच्यते-अथ कोऽयं ध्वनिनेन्द्रिय५ संस्कारः ? अविद्यापनयनम् । किं यथावस्थितं स्फोटं न गृह्णाति १ हन्त गृह्णात्येव । कथं न तद्व्यापित्वादिग्रहः ? संस्कारमतिनियमात्, अपैति निरवयवत्वादि अस्य केन हेतुना ? न तस्यान्यथा ग्रह इति कृत्वा, न हि शुक्लः पीत इति गृह्यतेऽभ्रान्तेन तस्माद् वर्णात्मक एव शब्दः; चित्रस्वभावत्वात् तथा श्रोत्रद्वारेण छद्मस्थेन १० गृह्यते, योगिना तु कात्त्र्यैनेति कृतं प्रसङ्गेन ||
,
प्रकृतं प्रस्तुमः । एवं व्यवहारान्यथाऽनुपपत्तेः अभिलाप्यानभि( स्वो० व्या० )
हृतेन तुल्ययोगक्षेमत्वात् । नवरं 'ध्वनिसंस्कृतं चेन्द्रियं स्फोटं गृह्णातीति न सर्वत्र तत्सम्प्रत्ययः' इति यदुक्तं पूर्वपक्ष एव, अत्र - अवयवे १५ उच्यते - अथ कोऽयं ध्वनिना इन्द्रियसंस्कारो नाम ? । पर आहअविद्यापनयनमिन्द्रियसंस्कारः । एतदाशङ्कयाह- किं यथावस्थितं स्फोट न गृह्णाति संस्कृतं तदिन्द्रियम् ? । पर आह- हन्त गृह्णात्येव । किमत्रोच्यत इत्येतदाशङ्कयाह- कथं न तद्व्यापित्वादिग्रहः, तस्य ध्वनेर्व्यापित्वनित्यत्वग्रह इत्यर्थः । पर आह-संस्कारप्रतिनियमादिन्द्रियस्य न तद्व्यापित्वादिग्रहः । एतदा२० वाह- अपैति निरवयवत्वादि अस्य - स्फोटस्य । 'आदि' शब्दाद व्यापित्वादिग्रहः । पर आह-केन हेतुना अपैति निरवयवत्वाद्यस्य ? । एतदाशङ्कयाह-न तस्यनिरवयवत्वादिरूपस्य अन्यथा ग्रह इति कृत्वा । किं तर्हि ? तथैव ग्रहः । एतदेवोदाहरणेनाह-न हि शुक्लः पीत इति गृह्यतेऽभ्रान्तेन प्रमात्रा, तस्माद् वर्णात्मक एव शब्दः, चित्रस्वभावत्वात् ग्रहणाग्रहणं प्रति तथा२५ तेन प्रकारेणाप्रतारकत्वादिना श्रोत्रद्वारेण न शेषेन्द्रियैः छद्मस्थेन - प्रमाना गृह्यत इति योगिना पुनर्निरावरणज्ञानेन कात्रुर्येन - भाषावर्गणोपादानकाययोगग्रहणवाग्योगनिसर्गसत्यादिरूपेण गृह्यत इति कृतं प्रसङ्गेन ॥
३९४
[ चतुर्थ:
प्रकृतं प्रस्तुमः । प्रकृतं चाभिलाप्यानभिलाप्यरूपं वस्तु, अत एवाह एवं व्यवहारान्यथाऽनुपपत्तेः कारणात् अभिलाप्यानभिलाप्यम्, वस्त्विति
१३८७ मे पृष्ठे । २ 'शुक्रं पीतं' इति क-पाठः । ३ 'यः' इत्यधिकः क-पाठः । ४ ३८७तमे पृष्ठे । ५ ' प्रकारेण प्रतारक०' इति ङ-पाठः ।