________________
अधिकारः] खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम् ३९५
(मूलम्) लाप्यमिति स्थितम् । न चात्र विरोधबाधा, भिन्ननिमित्तत्वात् । तथाहि-अभिलाप्यधर्मकलापनिमित्तापेक्षया तदभिलाप्यं अनभिलोप्यधर्मकलापनिमित्तापेक्षया चानभिलाप्यमिति धर्म-धर्मिणोश्च कथ- ५ श्चिद् भेद इति प्रतिपादितम् । ततश्च तद् यत एवाभिलाप्यम् , अत एवानभिलाप्यम्, अभिलाप्यधर्मकलापनिमित्तापेक्षयाभिलाप्य
(स्वो० व्या०) प्रक्रमः, स्थितमिति । न चात्रेत्यादि । न चात्र-अभिलाप्यानभिलाप्ये वस्तुनि विरोधवाधा । कुत इत्याह-भिन्ननिमित्तत्वात् कारणात् । एतदेवाह १० तथाहीत्यादिना । तथाहीति पूर्ववत् । अभिलाप्यधर्मकलापनिमित्तापेक्षया तत्-वस्तु अभिलाप्यं तथाऽनभिलाप्यधर्मकलापनिमित्तापेक्षया चानभिलाप्यमिति । इह चाभिलाप्यधर्मा अभिधेयपरिणामाः, अतोऽन्ये सम्बन्धिवशात् तथाऽभिधीयन्त इत्यनमिलाप्याः । धर्म-धर्मिणोश्च कथञ्चिद् भेद इति प्रतिपादितं प्राक् । ततश्च तद् यत एवाभिलाप्यं वस्तु अत.१५ एवानभिलाप्यम् । कथमेतदेवमित्याह-अभिलाप्यधर्मकलापनिमित्तापेक्षया अभिलाप्यत्वात् । ततः किमित्याह-अभिलाप्यधर्माणां च
(विवरणम्) (१३-१४) अतोऽन्ये सम्बन्धिवशात् तथाऽभिधीयन्त इत्यनभिलाप्या इति । अतोऽन्ये-अभिलाप्यधर्मेभ्यो विलक्षणास्तथाविधज्ञानगम्या अपि इक्षुक्षीरादि-२० रसमाधुर्यान्तरवत् अनभिलाप्या धर्माः । कुत इत्याह-सम्बन्धिवशात् तथाऽभिधीयन्त इति । सम्बन्धिन:-कथञ्चिदनमिलाप्यधर्मैः सह तादात्म्यसम्बन्धवतोऽभिलाप्यधर्मान्तरस्य वशात्-पारतत्र्यात् तथा गौणवृत्त्याऽभिधीयन्ते-प्रोच्यन्त इति हेतोः । तथा च पठ्यते
"इक्षुक्षीरगुडादीनां माधुर्यस्यान्तरं महत् ।
तथापि न तदाख्यातुं सरस्वत्याऽपि शक्यते ॥" इति । अयमत्र परमार्थः-घटे हि घटत्वादयो धर्मा अभिलाप्याः, मुख्यवृत्त्यैव तेषां स्वशब्दैरभिधीयमानत्वात् ; अनभिलाप्यास्तु तत्तत्पदार्थव्यावृत्तिरूपाः, अभिलाप्यधर्मान्तःस्थितानां तेषां प्रतीयमानत्वात् , मुख्यवृत्त्या तद्वाचकस्य ध्वनेरभावात्।।
'लाप्ये भर्म.' इति क-पाठः। २ 'मुल्यावती च तेषां' इति क-पाठः ।।