________________
१५
अनेकान्तजयपताकाख्यं प्रकरणम् - [चतुर्थः
(मूलम्) त्वात् , अभिलाप्यधर्माणां चानभिलाप्यधर्माविनाभूतत्वात्, यत एव चानभिलाप्यम् , अत एवाभिलाप्यम्, अनभिलाप्यधर्मकलाप५ निमित्तापेक्षयाऽनभिलाप्यत्वात्, अनभिलाप्यधर्माणां चाभिलाप्यधर्माविनाभूतत्वादिति । एतेन
"अन्यदेवेन्द्रियग्राह्यमन्यच्छन्दस्य गोचरः। शब्दात् प्रत्येति भिन्नाक्षो न तु प्रत्यक्षमीक्षते ॥ अन्यथा दाहसम्बन्धाद् दाहं दग्धोऽभिमन्यते । अन्यथा दाहशब्देन दाहार्थः सम्प्रतीयते ॥ वक्तृव्यापारविषयो योऽर्थो बुद्धौ प्रकाशते ।
प्रामाण्यं तत्र शब्दस्य नार्थतत्त्वनिबन्धनम् ॥ इत्यादि प्रतिक्षिप्तम्, रूपाद्यनेकधर्मणो वस्तुनोऽनभिलाप्यधर्मप्रधानस्येन्द्रियग्राह्यत्वात् , अभिलाप्यधर्मप्रधानस्य च शब्दगोचर
(खो० व्या०) सदाद्यभिधेयपरिणामानामनभिलाप्यधर्माविनाभूतत्वात्-तथाविधस्वसंवेद्यानाख्येयधर्माविनाभूतत्वाद् यत एव चानभिलाप्यमत एव च अभिलाप्यम् । कथमेतदेवमित्याह-अनभिलाप्यधर्मकलापनिमित्तापेक्षया
अनभिलाप्यत्वात् । यदि नामैवं ततः किमित्याह-अनभिलाप्यधर्माणां २.च उदितस्वरूपाणाम् । किमित्याह-अभिलाप्यधर्माविनाभूतत्वादिति ।
एतेन-अन्तरोदितेन वस्तुनोऽमिलाप्यानमिलाप्यत्वेन अन्यदेवेत्यादि प्रतिक्षिप्तमिति योगः। अन्यदेव-स्खलक्षणमिन्द्रियग्राह्यमन्यत्-सामान्यलक्षणं शब्दस्य गोचरः। कथमेतदेवमित्याह-शब्दात् प्रत्येति भिन्नाक्षः सामान्यलक्षणाध्यवसायेन, न तु प्रत्यक्षमीक्षते वस्तु । तथा अन्यथा दाहसम्ब२५न्धात् खलक्षणानुभवेन दाहं दग्धोऽभिमन्यते पुमान्; अन्यथा दाह
शब्देन-सामान्यलक्षणाध्यवसायेन दाहार्थः सम्प्रतीयते । तथा वक्तृव्यापारविषयो योऽर्थः सामान्यलक्षणाख्यो बुद्धौ प्रकाशते विकल्पबुद्धौ प्रामाण्यं तत्र शब्दस्य बुद्धिप्रकाश्ये नार्थतत्त्वनिबन्धनमित्यादि प्रतिक्षिप्तं-निराकृतम् । कथमिति मनागुन्मीलयति रूपाद्यनेकधर्मणो वस्तुन इत्यादिना । ३० तन्त्र रूपाद्यनेकधर्मणो वस्तुनः घटादेः अनभिलाप्यधर्मप्रधानस्येन्द्रियग्राध
१ मिनाक्षे' इति क-पाठः । २०४ अनुष्टुप् ।