________________
अधिकारः] खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम् ३९७
(मूलम्) त्वात् , तथाप्रतीतेः, इन्द्रियव्यापारेऽपि कथञ्चिदभिलाप्यधर्मावगमाद् वाचकप्रयोगदर्शनात् अन्तर्जल्पानुभवसिद्धेः शब्दादपि कचित् कथञ्चिदनभिलाप्यधर्मसंवेदनात्, तद्रक्ततादिप्रतीते, तुल्य- ५ जातीयमध्ये कचित् ततस्तद्विशेषावसायात् । एतच्चागोपालाङ्गनादिप्रतीतम् । या पुनर्भिन्नाक्षकस्य कचिच्छब्दादप्रतीतिरेव सा तथाविधतदन्यस्येव क्षयोपशमवैकल्येन । न खल्वनन्धोऽपि तथाविध
(स्वो० व्या०) स्वादभिलाप्यधर्मप्रधानस्य च शब्दगोचरस्थात्, प्रतिक्षिप्तमिति क्रिया । १० एतदेवेत्थमिति । कुत इत्याह-तथाप्रतीते:-अनभिलाप्यधर्मप्रधानादितया प्रतीतेः । एनामेवाह-इन्द्रियव्यापारेऽपि-विद्युत्सम्पातादौ कथञ्चित्-केनचित् प्रकारेण अभिलाप्यधर्मावगमात् । अवगमश्च वाचकप्रयोगदर्शनात् । तद्दर्शनं च अन्तर्जल्पानुभवसिद्धेः तथा शब्दादपि क्वचित् कथञ्चिदनभिलाप्यधर्मसंवेदनात् । संवेदनं च तद्रक्ततादिप्रतीतेः-घटादिवस्तुरक्ततादि- १५ प्रतीतः । प्रतीतिश्च तुल्यजातीयमध्ये सति कचित् ततः-शब्दात् प्रतीतेः तद्विशेषावसायात्-रक्ततादिविशेषावसायात् । एतचागोपालागनादिप्रतीतं वस्तु । या पुनर्भिन्नाक्षस्य-अन्धस्य कचित्-अपूर्वे शब्दादप्रतीतिरेवेन्द्रियार्थे सा तथाविधतदन्यस्येव-जडमतेः चक्षुष्मतोऽपि क्षयोपशमवैकल्येन । एतदेव भावयति न खल्वित्यादिना । न खलु अनन्धोऽपि तथा-२०
(विवरणम् ) (१४) अन्तर्जल्पानुभवसिद्धेरिति । अकस्माद् विधुदुपलम्भोऽपि अन्तर्जल्पः प्रवर्तते विद्युदियमित्युल्लेखेनेत्यर्थः। अत इन्द्रियज्ञानेऽपि कथञ्चिदमिलाप्यधर्मप्रतीतिरिति सिद्धं भवति ।।
(१५-१६) घटादिवस्तुरकतादिप्रतीतेरिति । घटमानयेत्युक्तेऽतिनिपुणः कश्चित् २५ प्रमाता तेन शब्देनानभिहितानपि घटगतान प्रतिनियतान् रक्तादिधर्मान् प्रस्तावादिभ्यः प्रतिपद्यत इत्यर्थः । अतो घटशब्दान मुख्यवृत्त्या घटत्वे प्रतीयमाने गुणभावेनानभिलाप्या रक्तवादयोऽपि ज्ञायन्त एवेति सिद्धम् । अनभिलाप्यत्वं चात्र रक्तत्वादीनां घटध्वन्यपेक्षया द्रष्टव्यम् , न तु स्वरूपेण रक्तवादिध्वनिभिरभिलाप्यत्वात् तेषाम् । ये च स्वभावेनैवानभिलाप्यास्तत्र घटे तेऽप्यभिलाप्याभिलाप्येषु धर्मेषु ३० प्रतीयमानेषु प्रतीयन्त एवेत्युपलक्षणाक्षिप्तम् ॥
'पुनर्भिन्नाक्षस्य' इति ग-पाठः ।