________________
३९८
अनेकान्तजयपताकाख्यं प्रकरणम्
[चतुर्थः (मूलम्) क्षयोपशमविकलो जनः कचिद् रत्नादौ शिरःशूलशमनादिलक्षणं विशिष्टप्रभावं शब्देनोच्यमानमपि प्रतिपद्यते, तथाऽदर्शनात् । न ५चासौ न शब्दार्थः, तदन्येनावगमात्, तथाव्यवहारसिद्धेः, अर्थक्रियोपलम्भादिति । स्यादेतद् यदि तदभिलाप्यानभिलाप्यधर्मकमेवं तयभिलाप्यानां शब्देनाभिधीयमानत्वात् किमित्यकृतसङ्केतस्य पुरोऽवस्थितेऽपि वाच्ये शब्दान्न सम्प्रत्यय-प्रवृत्ती भवत इति ? |
अत्रोच्यते-तज्ज्ञानावरणकर्मक्षयोपशमाभावात् तस्य च सङ्केता. १० द्यभिव्यङ्गयत्वात् । तथाहि-ज्ञखभावस्यात्मानो मिथ्यात्वादिजनितज्ञानावरणादिकर्मपटलाच्छादितखरूपस्य सङ्केततपश्चरण
(स्वो० व्या०) विधक्षयोपशमविकलः जनः-प्रमाता क्वचिद् रत्नादौ वस्तुनि शिरःशूल.. शमनादिलक्षणं 'विशिष्टप्रभावं शन्देनोच्यमानमपि रत्नपरीक्षाकुशलेन १५ प्रतिपद्यते। न खलु-नैव । कुत इत्याह-तथाऽदर्शनात् । न चासौ-शिरःशूलशमनादिलक्षणो विशिष्टप्रभावो न शब्दार्थः, किन्तु शब्दार्थ एवेत्याह-एतदन्येनावगमात् । अवगमश्च तथाव्यवहारसिद्धः। सिद्धिश्च-अर्थक्रियोपलम्भादिति । स्यादेतत्-यदि तत्-वस्तु अभिलाप्यानभिलाप्यधर्मकं, एवं तयभिलाप्यानाम् , धर्माणामिति प्रक्रमः, शब्देन अभिधीय२० मानत्वात् कारणात् किमित्यकृतसङ्केतस्य, श्रोतुरिति प्रक्रमः । पुरोऽवस्थितेऽपि वाच्ये-पनसादौ शब्दात् सकाशात् न सम्प्रत्यय-प्रवृत्ती भवत इति पूर्वपक्षः । अत्रोच्यते-तज्ज्ञानावरणकर्मक्षयोपशमाभावात-अकृतसङ्केतवाच्यज्ञानावरणकर्मक्षयोपशमाभावात् तस्य च-क्षयोपशमस्य सङ्केताद्यभिव्यङ्गयत्वात् । एतदेव प्रकटयति तथाहीत्यादिना । तथाहीति पूर्ववत् । २५ ज्ञवभावस्थात्मनः जीवस्य मिथ्यात्वादिजनितं च तत् , 'आदि'शब्दादविरत्यादिग्रहः, "मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः" इति वचनात् , ज्ञानावरणादि कर्म च, “आदि'शब्दाद् दर्शनावरणादिग्रहः, "ज्ञानदर्शनावरणवेद्यमोहायुर्नामगोत्रान्तराया मूलबन्धः" इति वचनात् , एतदेव पटलानीव पटलानि तैराच्छादितं खरूपं यस्य स तथा तस्य । किमित्याह-सङ्केत
. १ तत्वभाव.' इति क-पाठः। २ 'जडः प्रमाता' इति ङ-पाठः । ३ 'विशिष्टः प्रभावो.' इति ऊ-पाठः। ४ 'ज्ञानावरणदर्शन.' इति -पाठः।