________________
अधिकारः ] स्वोपज्ञव्याख्यामुनिचन्द्रीय विवरणयुतम्
१०
( मूलम् ) दानप्रतिपक्षभावनादिभिस्तदावरणकर्मक्षयोपशमक्षयावेवापाद्येते, aat विवक्षितार्थाकारं संवेदनं प्रवर्तत इति, अन्यथा तत्प्रवृत्त्यभावात् तत्प्रथमतयैव सर्वत्रादृष्टसङ्केतानामर्भकाणां सङ्केत- ५ स्य कर्तुमशक्यत्वात् । तथाहि न सङ्केतकशब्दादप्यसङ्केतितात् तदर्धप्रतिपत्तिः सङ्केतवैयर्थ्यप्रसङ्गात् असङ्केतितादपि ततः तत्प्रतीतेः तत्सङ्केतकरणे च तत्राप्ययमेव वृत्तान्त इत्यनवस्थाप्रसङ्गः । केचिदवस्थाने चासङ्केतितादेव तत्प्रतीतौ अस्मन्मता( स्वो० व्या० ) तपश्चरणदानप्रतिपक्षभावनादिभिः 'आदि' शब्दः स्वभेदप्रख्यापकः एभिः । किमित्याह - तदावरणक्षयोपशमश्च - ज्ञानावरणादिक्षयोपशमश्च क्षयश्चेति विग्रहः तौ एव आपाद्येते ततः क्षयोपशमादेः विवक्षितार्थाकारं संवेदनं प्रवर्तत इति । इत्थं चैतदङ्गीकर्तव्यमित्याह - अन्यथा तत्प्रवृत्त्यभावात् विवक्षितार्थकारसंवेदनप्रवृत्त्यभावात् । अभावश्च तत्प्रथमतयैव-तजन्मापेक्षया सर्वत्र १५ अदृष्टसङ्केतानामर्भकाणां - बालानां सङ्केतस्य कर्तुमशक्यत्वात् । तथाऽशक्यत्वमेवाह तथाहीत्यादिना । तथाहीत्युपप्रदर्शने । सङ्केतकशब्दादप्यसङ्केतितात् सकाशात् तदर्थप्रतिपत्तिः सङ्केतशब्दार्थप्रतिपत्तिः । कुतो नेत्याहसङ्केत वैयर्थ्यप्रसङ्गात् । प्रसङ्गव असङ्केतितादपि ततः सङ्केतकशब्दात् तत्प्रतीतेः सङ्केत कशब्दार्थप्रतीतेः । तत्सङ्केतकरणे च सङ्केतक - २० शब्दसङ्केतकरणे च तत्रापि - अपरसङ्केतशब्दे । किमित्याह-अयमेव वृत्तान्तो यदुत तत्सङ्केतकरणमेव इति - एवमनवस्थाप्रसङ्गः । क्वचिदित्यादि । क्वचित्शब्दान्तरेऽवस्थाने चाभ्युपगम्यमाने असङ्केतितादेव तत्प्रतीतौ अभ्युपगम्य
(विवरणम् )
३९९
(६) न सङ्केतशब्दादपीत्यादेरयमभिप्रायः - प्रथमतः केनापि शब्देन कस्मिं - २५ विदर्थे सङ्केते क्रियमाणे स्वत एव कियानपि सङ्केतकध्वनेः सम्बन्धी अर्थः प्रतीयते सङ्केतार्हेण प्रमात्रा । तथाहि - एष पदार्थो घट इत्युच्यते । अस्मिन् सङ्केतके वाक्ये एष शब्दस्य - पदार्थशब्दस्य च उच्यते इति शब्दस्य च स्वयमेवार्थं चेत्यसो घद इत्यत्र तु विशेषतः सङ्केत इति, अतोऽभ्युपगन्तव्यमेतद् यदुत सङ्केताभावेऽपि किञ्चित् कचित् कुतोऽपि शब्दादवबुद्ध्यते । यदि तु सर्वत्रैव सङ्केतकस्य व्यपेक्षता ३० स्यात् तदानीं व्यवहारप्रलय एव स्यात्, सूक्तोक्तयुक्तेरिति ॥
१ 'क्वचित् तदव ०' इति क-पाठः । २ 'स्थाने चास्मन्मता०' इति ग-पाठः सव्यपेक्षता' इति च - पाठः ।
३ 'सङ्केतक