________________
अनेकान्तजयपताकाख्यं प्रकरणम् [चतुर्थः
(मूलम्) नुवाद एव, ततः शब्दात् तदावरणकर्मक्षयोपशमस्ततो विवक्षितार्थाकारं संवेदनमेतच सङ्केतकशब्दादप्यविरुद्धमेवेति । सर्वस्यै५वास्यैवं तदावरणकर्मक्षयोपशमहेतुत्वाविशेषतः सङ्केतक(त्व)मिति
चेत्, न, एतदविशेषासिद्धेः प्रबलेतरावरणविषयभेदेन विशेषात् । स्यादेतदर्भकोऽप्यसकृदित्यादिशब्दं सङ्केत्यार्थसन्निधौ उच्चार्यमाणमाकर्ण्य व्यवहतूंश्च तथा व्यवहारे प्रवर्तमानान् दृष्ट्वा प्रतिपद्यते
शब्दार्थम् । तथाहि-न मात्रादिभिः कस्यचिद् घटादावपि सङ्केतः १० क्रियते, दृश्यते च तत्प्रतिपत्तिरिति । अत्रोच्यते-दृश्यते खल्वियं
(खो० व्या०) मानायामित्यर्थः । किमित्याह-अस्मन्मतानुवाद एव । कुत इत्याह-ततः-असकेतितात् शब्दात् पर्यन्तवर्तिनः तदावरण(कर्म)क्षयोपशम:-अधिकृतशब्दार्थज्ञानावरणकर्मक्षयोपशमः तत:-क्षयोपशमाद् विवक्षिताकारं संवेदनम्५ अधिकृतशब्दार्थाकारं संवेदनमेतच-एवं भवत्सङ्केतकशब्दादप्यविरुद्धमेव
अस्मादप्यसङ्केतितादेव भवतु इति न कश्चिद् दोषः । आह-सर्वस्यैवास्य-शब्दस्य व्यवहारकालभाविनोऽपि एवं-सङ्केतकशब्दवत् तदावरणकर्मक्षयोपशमहेतुत्वाविशेषतः-विवक्षितार्थज्ञानावरणकर्मक्षयोपशमहेतुत्वाविशेषतः कारणात्
सङ्केतकत्वम् । इति चेत्, एतदाशझ्याह-न, एतदविशेषासिद्धेः-तदा२० वरणकर्मक्षयोपशमहेतुत्वाविशेषासिद्धेः । असिद्धिश्च प्रवलेतरावरणविषयभेदेन विशेषात् । तथाहि-प्रबलावरणक्षयोपशमकृत् सङ्केतकशब्दः अप्रबलावरणक्षयोपशमकारिणश्च व्यवहारकालभाविन इति भावना । स्यादेतदित्यादि । अथैवं मन्यसे अर्भकोऽपि-बालोऽपि असकृत्-अनेकशः अयमित्यादिशब्दं अयं घट इत्यादिरूपं सङ्केत्यार्थसन्निधौ उच्चार्यमाणं, घटादिसन्निधावित्यर्थः, आकर्ण्य तथा २५ व्यवहर्तृश्व-प्राणिनस्तथा-तदानयनादौ व्यवहारे प्रवर्तमानान् दृष्ट्वा प्रतिपद्यते शब्दार्थम् , अयमित्यादिना शब्देन पुरोऽवस्थितार्थादिरूपम् । एतदेव भावयति तथाहीत्यादिना । तथाहीति पूर्ववत् । न मात्रादिभिः-प्राणिविशेषैः कस्यचित्-अर्भकस्य घटादावपि सङ्केतः क्रियते । आस्तामयमित्यादिशब्दस्सातिप्रसिद्धस्स दृश्यते च तत्प्रतिपत्तिः-घटादिप्रतिपत्तिः कालेन इति। एतदाशङ्कयाह
१ 'सङ्केतस्वमिति' इति ग-पाठः । २ 'एतद्विशेषाः' इति क-पाठः। ३ 'शब्दसङ्केल्या.' इति ग-पाठः । ४ "क्रियते' इति पाठो न विद्यते ग-प्रतौ । ५ 'कारणतः' इत्यधिकः क-पाठः ।