________________
स्वोपज्ञव्याख्यामुनिचन्द्रीय विवरणयुतम्
(मूलम्)
प्रतिपत्तिः, किन्तु भवत्पक्षे न युज्यते असकृद्दर्शन कालेऽप्यादिशब्दात् प्रतिपत्यनुपपत्तेः, असङ्केतितत्वादुपपत्तौ चास्मदुक्तन्यायेन कथञ्चिद वास्तव सण्टङ्कसिद्धिः । अनादित्वात् संसार- ५ स्यासकृच्छ्रतत्वात् सर्वशब्दानामाद्यशब्दश्रवणासिद्धिरिति चेत्, सुतरां तत्सिद्धिः, अनादावपि भवे तस्य तद्वाचकत्वेन श्रवणात् ततस्तदर्धप्रतीतिसिद्धेः, अन्यथा चासिद्धेरित्यनादिमान् वाच्यवाचकभावः । वाचकत्वं च शब्दस्य वाच्यविषय संवेदनजनकत्व - मेवेति प्रतिपादितं पुरस्तात् । बुद्धिप्रकाशार्थे च शब्दप्रामाण्यं १० स्वतन्त्रनीत्याऽतिपाण्डित्यख्यापनफलम् । न हासौ स्वसंविदो
अधिकार: ]
४०१
( खो० व्या० )
अत्रोच्यते - दृश्यते खलु इयं - यथोदिता प्रतिपत्तिः, किन्तु भवत्पक्षेत्वदभ्युपगमे न युज्यते । कथं न युज्यत इत्याह- असकृद्दर्शनकालेऽपि आदिशब्दात्-प्रथमशब्दात् तज्जन्मापेक्षया । किमित्याह - प्रतिपत्त्यनुपपत्तेः । अनुप - १५ पत्तिश्च - असङ्केतितत्वादुपपत्तौ च सत्यां अस्मदुक्तन्यायेन - 'ततः शब्दात् तदावरणकर्मक्षयोपशमः' इत्यादिना । किमित्याह -कथञ्चिदू वास्तवसण्टङ्कसिद्धिः - पारमार्थिकसम्बन्धसिद्धिः शब्दार्थयोरिति भावना त्वधः कृतैव । पर आहअनादित्वात् संसारस्य असकृच्छ्रतत्वात् सर्वशब्दानां तत्र तत्र व्यवहारे आद्यशब्दश्रवणासिद्धिः । इति चेत् ततश्चादिशब्दात् प्रतिपत्त्यनुपपत्त्ये- २० रित्यचारु । एतदाशङ्कयाह-मुतरां तत्सिद्धिः, प्रमाद् वास्तवसण्टसिद्धिः । कथमित्याह- अनादावपि भवे संसारे तस्य - विवक्षितस्यायमित्यादेः शब्दस्य तद्वाचकत्वेन - पुरोऽवस्थितभाववाचकत्वेन श्रवणात् ततः कारणात् तदर्धप्रतीतिसिद्धेः - वाच्यार्थप्रतीतिसिद्धेः । अन्यथा चासिद्धेः इति - एवमनादिमान् वाच्यवाचकभावः शब्दार्थयोरिति । वाचकत्वं च शब्दस्य । २५ किमित्याह-वाच्यविषयसंवेदनजनकत्वमेवेत्येतदसकृत् प्रतिपादितं पुरस्तात् । दोषान्तरमाह- बुद्धिप्रकाशार्थे च भवदभिमते शब्दप्रामाण्यं स्वतननीत्या - परमार्थरूपयाऽतिपाण्डित्यगुणप्रख्यापनफलमित्युपहासवचनम् ।
१ ' शब्दात् तत्प्रति०' इति ग-पाठः । २ 'वास्तव सम्बन्धसिद्धेः' इति क-पाठः । ३ 'सर्वथा शब्दाना ०' इति क- पाठश्चिन्त्यः । ४ 'श्रवणात्तदर्थ०' इति ग-पाठः । ५ ' वाच्यविषये संवेदन० ' इति ग-पाठः । ६ दृश्यतां ४०० तमं पृष्टम् । ७ 'प्रत्यन्तरे रभाव ए' इत्यधिको ङ-पाठश्चिन्त्यः । ८ 'संहारवचनम्' इति ङ-पाठः ।
अनेकान्त० ५१
{