________________
अनेकान्तजयपताकाख्यं प्रकरणम्
( मूलम् )
व्यतिरिक्तादिविकल्पैः कश्चिदुपपद्यते स्वसंविद्विषयप्रामाण्याभ्युपगमे च ज्ञानखलक्षणवाचकत्वमेव शब्दानामित्येतदपि वस्तुतः ५ प्रतिपादितमेव, अपोहविषयत्वे च शब्दानां तस्य तत्त्वतोऽसत्त्वात् निर्विषयत्वेनानेकदोषप्रसङ्गः । तथाहि
१०
४.२
१५
"क्षणिकाः सर्वसंस्कारा इत्यासवचनं वृथा । अपोहविषयत्वेऽस्य यथार्थत्ववियोगतः ॥ १ ॥ अपोहो येन संस्कारा न च क्षणिक इष्यते । इष्टौ वा तस्य वस्तुत्वं बलादेव प्रसज्यते ॥ २॥' नमो बुद्धाय चेत्यादिस्तवः सर्वो निरर्थकः । तत्तत्त्वानभिधानेन तथा च वचनक्षतिः ॥ ३ ॥ अवस्तुत्वाप्रतिज्ञानात् तेषामिष्टौ च तत्त्वतः । सर्वस्तवाविशेषः स्यादयोगाद् वस्त्ववस्तुनोः ॥ ४ ॥
[ चतुर्थः
( स्वो० व्या० )
एतद्भावार्थमाह-न सौ - बुद्धिप्रकाशः स्वसंविदः सकाशात् व्यतिरिक्तादिविकल्पैः - व्यतिरिक्ताव्यतिरिक्तोभय विकल्पैः कश्चिदुपपद्यत इति भावितमसकृत् । खसंविद्विषयप्रामाण्याभ्युपगमे च किमित्याह - ज्ञानख - लक्षणवाचकत्वमेव शब्दानामित्येतदपि वस्तुतः - परमार्थतः प्रतिपादि२० तमेव पुरस्तात्, अपोहविषयत्वे च शब्दानां तस्य -अपोहस्य तत्त्वतोsसत्त्वान्निर्विषयत्वेन हेतुना । किमित्याह- अनेकदोषप्रसङ्गः । एनमेव दर्शयति तथाहीत्यादिना । क्षणिकाः सर्वसंस्कारा इत्याप्तवचनं वृथानिरर्थकमेव अपोहविषयत्वेऽस्य -आप्तवचनस्य यथार्थत्ववियोगतः कारणात् ॥ १ ॥ वियोगश्च अपोहो यत् - यस्मान्न संस्काराः - न स्वलक्षणानि न २५ च क्षणिक इष्यतेऽपोहोऽवस्तुत्वात् । इष्टौ वा क्षणिकत्वस्यापोहस्य वस्तुत्वंसंस्कारत्वं बलादेव प्रसज्यते ॥ २ ॥ तथा नमो बुद्धाय चेत्यादिः स्तवः सर्वो निरर्थकः, अर्थशून्यत्वान्निष्फल इत्यर्थः । तत्तत्त्वानभिधानेन तथा च वचनक्षतिः ॥ ३ ॥ कथमित्याह - अवस्तुत्वाप्रतिज्ञानात् तेषां बुद्धादीनां इष्टौ च वचनक्षतेरवस्तुत्वाप्रतिज्ञानस्येत्यर्थः । तत्त्वतः - परमार्थतः सर्व
१ अनुष्टुप् । २ 'यत्र' इवि क - पाठः । ३-५ अनुष्टुप् ।