________________
अधिकारः] खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम् ) शिक्षापदाभिधानं च भावार्थानभिधानतः। गेयादितुल्यमेवं स्यात् तद्वाच्यत्वाविशेषतः ॥५॥ न चासत्त्वाद् विशेषोऽस्य घटते सूपपत्तितः। अवस्तुत्वादसत्त्वं च तस्य वस्तुत्वमन्यथा ॥ ६॥ जघन्याश्लीलवादश्च योऽपि रत्नत्रयानुगः। अनर्थाय न सोऽप्येवं हन्त युक्त्योपपद्यते ॥७॥
(खो० व्या०) स्तवाविशेषः स्यात् नमो बुद्धाय नमः शिवायेत्यादिस्तवापेक्षया । कुत इत्याह- १० अयोगादू वस्त्ववस्तुनोः असम्बन्धाद् बुद्धवस्त्वपोहावस्तुनोरिति ॥४॥ तथा शिक्षापदाभिधानं च-हिंसाविरत्याद्यभिधानं च भावार्थानभिधानतःअवस्तुत्वाभिधानेन हेतुना गेयादितुल्यमेवं स्यात्-इत्थं भवेत् । कुत इत्याहतद्वाच्यत्वाविशेषत:-अवस्तुवाच्यत्वाविशेषात्, अवस्तुनश्च भेदायोगादिति भावः ॥५॥ तथा चाहन्न चासत्त्वात् कारणाद् विशेष:-भेदोऽस्य-वस्तुनः १५ अपोहस्य घटते सूपपत्तितः-सुयुक्तितः, अवस्तुत्वाद्धेतोरसत्त्वं च तस्यअपोहस्य । इत्थं चैतदङ्गीकर्तव्यमित्याह-वस्तुत्वमन्यथा तस्यापोहस्य ॥६॥ तथा जघन्याश्लीलवादश्च यकारादिभिर्योऽपि रत्नयानुग:-बुद्धसङ्घधर्मविषयः अनर्थाय-प्रत्यवायाय न सोऽपि-वाद एवमवस्तुविषये शब्दानां हन्त युत्तयोपपद्यते, रत्नत्रयानुगत्वासिद्धेः ॥ ७॥ तथा भिक्षो इत्यादिशब्दाच २०
(विवरणम्) (११) असम्बन्धाद् बुद्धवस्त्वपोहावस्तुनोरिति । बुद्धरूपं वस्तु अपोहरूपं चावस्तु तयोर्द्वयोरप्यसम्बन्धात् । अयमर्थः-नमो बुद्धायेत्यादौ स्तुतिवाक्ये योऽपोहः स न बुद्धलक्षणेन वस्तुना सह सम्बद्धः, अतो निष्फल एव स्तवयासः शिवादिस्तवेभ्यो विशेषाभावाद् बुद्धस्तवस्येति ॥ इति श्रीमुनिचन्द्रसूरिविरचिते २५ अनेकान्तजयपताकावृत्तिटिप्पणकेऽभिलाप्यानभिलाप्याधिकारः॥
१ अनुष्टुप् । २ 'वाऽसत्त्वाद्' इति ग-पाठः। ३-४ अनुष्टुप् । ५ 'बुद्धय(१)वस्वः ' इति ङ-पाठः 1.... 'यकारादिः योऽपि'... इति-अ-पाठः-1 - ... 'त्रयानुयोगबुद्ध' इति क-पाठः । ८ 'प्रयासः अपोहरूपं वा वस्तु तयोबु(च)द्धस्तवस्येति । इति श्री' इति ख-च-पाठः। . .