________________
३७४
अनेकान्तजयपताकाख्यं प्रकरणम् [चतुर्थः
(मूलम् ) पत्तिनान्तरीयकैवार्थप्रतिपत्तिरित्यनयोरपीदं न्याय्यमिति त्वसुन्दरम्, अर्थस्य बोधभिन्नदेशतोपपत्तेः, तथाऽनुभवसिद्धत्वात् ५ तदुपलब्धावपि तदर्थप्रवृत्तिसिद्धेः। भ्रान्तिमात्रमेतन्न तत्त्वत इति
चेत् किमत्र प्रमाणम् ? । तयोरेव तादात्म्यमिति चेत्, तदिदमसिद्धमसिद्धेन साध्यते । यत्किश्चिदेतत् । देशभेदेन तद्भेद एव प्रतीयत इति चेत्, न, तस्यापि तद्भेदत्वेन भेदकत्वायोगात् । न ह्यविशिष्टमम्भस्तदन्यस्य भेदकं भवति, न च कथश्चिद् भिन्नं विशेषणमन्त"रेण, विशिष्टता स्वरूपवैशिष्ट्यस्यापि अन्यतो देशभेदादिना विना योगादिति सूक्ष्मबुद्धिविषय एव । एवं च 'शब्दानुविद्धश्चाखिलोs.
(स्त्रो० व्या०) पत्तिनान्तरीयकैवार्थप्रतिपत्तिरित्यनयोः शब्दार्थयोरिद-तादात्म्यं न्या
व्यमिति तु-एतत् पुनरसुन्दरम् । कुत इत्याह-अर्थस्य-घटादेबोधभिन्न१५देशतोपपत्तेः, तथाऽनुभवसिद्धत्वात्-बोधाद् मिन्नदेशतयाऽर्थस्यानुभवसिद्धत्वात् , 'विभिन्नार्थग्रहणस्वभावसंवेदनवेदनादित्यर्थः । इहैवोपचयमाह-तदुपलब्धावपि-अर्थोपलब्धावपि सत्यां तदर्थ-अर्थार्थं प्रवृत्तिसिद्धेनैषार्थतद्वोधाभेदे च बोधे च शब्द इति भावनीयम् । भ्रान्तिमात्रमेतदर्थस्य बोधभिन्नदेशतादि, न तत्त्वतः। इति चेत्, एतदाशयाह-किमत्र-भ्रान्तिमात्रमेतदित्येतस्मिन् २० प्रमाणम् ? । तयोरेव-शब्दार्थयोः तादात्म्यं बोधशब्दभावेन । इति चेत्, एतदाशझ्याह-तदिदमसिद्धं बोधार्थयोस्तादात्म्यमसिद्धेन शब्दार्थतादाम्येन साध्यत इति कृत्वा यत्किञ्चिदेतत्-असारम् । देशभेदेन तद्भेद एव, प्रक्रमाच्छन्दात्मकार्थभेद एव प्रतीयते। इति चेत्, एतदाशङ्कयाह-न, तस्यापि
देशभेदस्यापि तद्भेदत्वेन-शब्दात्मकार्थभेदत्वेन भेदकत्वायोगात्। एतदेव २५ दृष्टान्तेन भावयति । न ह्यविशिष्टमम्भः क्षारादिना तदन्यस्य-अम्भसो
भेदकं भवति, उभयोस्तन्मात्रत्वात्, न च कथश्चित् केनचित् प्रकारेण तद्विशेषणोपयोगित्वलक्षणेन भिन्नं विशेषणं-देशादिकमन्तरेण-विना । विशिष्टताऽम्भसो भेदकस्य स्वरूपमेव विशिष्टमिति पक्षव्युच्छेदायाह-स्वरूपवैशिष्ट्य
स्थापि, अन्यतः, अन्यस्याम्भस इति प्रक्रमः । देशभेदादिना-भेदकेन ३. विना योगादिति सूक्ष्मबुद्धिविषय एव विचारस्तदभावे द्वयोरप्यम्भसोरेकखापत्तेः । एवं च सति शब्दानुविद्धश्चाखिलोऽर्थावबोध इत्यनुभवः १ 'विच्छिन्नार्थः' इति ड-पाठः। २ 'शब्दा इति' ङ-पाठः ।