________________
अधिकारः]
स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
अन्यथा पूर्वोक्तदोषानतिवृत्तिः। अवृक्षत्वव्यावृत्तिमात्रनिबन्धनमेतदशिंशपाव्यावृत्त्या विशेष्यत इति चेत्, अस्त्वेतदेवमप्यस्मदभ्युपगमसिद्धिरेव, अशिंशपाव्यावृत्तिरहितस्यापि वृक्षत्वस्य ५ धवादिषु भावात्, शब्दान्तरवाच्ययोर्विशिष्टयोधर्मयोरेव तादात्म्यमित्यस्मदभ्युपगमसिद्धिः, परिकल्पितत्वं च व्यावृत्तीनां प्राग निरस्तमेवेति न पुनः प्रतन्यते । एवं च 'वृक्षत्वप्रतिपत्तिनान्तरीयका शिंशपात्वप्रतिपत्तिरित्यनयोस्तादात्म्यम्" इत्येतत् सुन्दरमेव, कथञ्चित् तदुपपत्तेः, अन्यथाऽयोगादित्युक्तप्रायम् । एवं शब्दप्रति-३०
(स्त्रो० व्या०) ततः-वृक्षत्वात् । इत्थं चैतदङ्गीकर्तव्यमित्याह-अन्यथा-एवमनभ्युपगमे पूर्वोक्तदोषानतिवृत्तिः, धवाद्यभावप्रसङ्ग इत्यर्थः । अवृक्षत्वव्यावृत्तिमात्रनिवन्धनमेतत्-वृक्षत्वं अशिंशपाव्यावृत्या-धवादिव्यावृत्त्या विशेष्यत इति चेत् । अवृक्षव्यावृत्तमप्येवमेतदवृक्षव्यावृत्तिमात्रं न भवतीत्यादि दूषणमना-१६ इत्यैतदाह-अस्त्वेतदित्यादि । अस्तु-भवत्वेतत् , किन्तु एवमप्यस्मदभ्युपगमसिद्धिरेव । कथमित्याह-अशिंशपाव्यावृत्तिरहितस्यापि वृक्षत्वस्य । किमित्याह-धवादिषु भावात् , एवं शब्दान्तरवाच्ययोर्विशिष्टयोर्धर्मयोरेव-वृक्षत्व-शिंशपात्वयोः तादात्म्यमित्यस्मदभ्युपगमसिद्धिः। परिकल्पितत्वं च व्यावृत्तीनां प्राग् निरस्तमेव अनेकश इति न पुनः प्रतन्यते । इहैव धवादौ शिंशपात्वरहितवृक्षवभावश्च परिकल्पनात् शत्रुरिति भावनीयम् । एवं च वृक्षत्वप्रतिपत्तिनान्तरीयका शिंशपात्वप्रतिपत्तिरित्यनयो:-वृक्षत्व-शिंशपात्वयोः तादात्म्यमित्येतत् सुन्दरमेव । कुत इत्याह-कथञ्चित् तदुपपत्तेः तादात्म्योपपत्तेः अन्यथाऽयोगादित्युक्तप्रायंप्रायेणोक्तं 'नान्योऽन्यव्याप्तिः' इत्यादिना । दान्तिकमधिकृत्याह-एवं शब्दप्रति-२५
(विवरणम्) (१५-१६) अवृक्षव्यावृत्तमप्येवमेतदवृक्षव्यावृत्तिमानं न भवतीत्यादि दूषणमनाहत्येति । यदि हि वृक्षत्वं अवृक्षव्यावृत्तिमात्रमेवाभ्युपगम्यते तर्हि वन्ध्यासुतप्रख्यं व्यावृत्तिमानं तुच्छमेव तत् प्राप्नोति, न तु विशिष्टं वस्त्विति दूषणमनङ्गीकृत्येत्यर्थः॥
१'प्रेक्ष्यतां ३६५तमं पृष्ठम् । २ 'नान्तरीयिका' इति क-पाठः। ३ 'नान्यान्य०' इति झपाठः। ४ 'अवृक्षत्वं अवृक्षव्यावृत्ति.' इति च-पाठः ।