________________
[ चतुर्थः
३७२
अनेकान्तजयपताकाख्यं प्रकरणम्
(मूलम्) शब्दानुगतबोधसिद्धावपि न बोधाभिन्नदेशोऽर्थ इति कुतः शब्दाथेयोःतादात्म्यम् । यच्चोक्तम्-तत एव तत्प्रतीतेवृक्षत्वर्शिशपात्व५ वत्' इत्यादि तदप्ययुक्तम् , अत्रापि धर्मभेदनिबन्धनत्वादस्य । वृक्षत्व-शिंशपात्वे हि विशिष्टौ वस्तुधौं कथञ्चिद् भेदाभेदवृत्ती; नान्यथाऽनयोस्तादात्म्यम् । तथाहि-यदि वृक्षत्वमेव शिंशपात्वमिति धवाद्यभावप्रसङ्गः, तत्र वृक्षत्वस्य विद्यमानत्वात् तस्य च शिंशपात्वादिति । अथ विशिष्टं वृक्षत्वमेतत् , किमस्य विशेषण१० मिति चिन्त्यम् । ननु शिंशपात्वमेव, कथञ्चिदन्यत्, तर्हि तत् ततः,
(खो० व्या०) शब्दानुगतबोधसिद्धावपि सत्यां किमित्याह-न बोधाभिन्नैदेशोऽर्थः अर्था(?)वाच्य इति-अस्माद्धेतोः कुतः शब्दार्थयोस्तादात्म्यम् ? नैवेत्यर्थः ।
यच्चोक्तम्-'तत एव तत्प्रतीतेः वृक्षत्वशिंशपात्ववत्' इत्यादि पूर्वपक्षे १५ तदप्ययुक्तम् । कुत इत्याह-अत्रापि-निदर्शने धर्मभेदनिबन्धनत्वादस्यतादात्म्यस्य । एतदेवाह-वृक्षत्व-शिंशपात्वे हि-यस्माद् विशिष्टौ वस्तुधर्मों वर्तेते कथञ्चिद् भेदाभेदवृत्ती इतरेतरव्याप्त्या, नान्यथाऽनयोः-वृक्षवशिंशपात्वयोः तादात्म्यम्, अनेकदोषप्रसङ्गात् । एतदेवाह तथाहीत्यादिना । तथाहीति पूर्ववत् । यदि वृक्षत्वमेव शिंशपात्वमिति-एवं तादात्म्य२० मिष्यते, ततः किमित्याह-धवाद्यभावप्रसङ्गः । कथमित्याह-तत्र-धवादौ वृक्षत्वस्य विद्यमानत्वात् तस्य च-वृक्षत्वस्य शिंशपात्वादिति । अथ विशिष्टं वृक्षत्वमेतत्-शिंशपात्वमित्येतदाशङ्कयाह-किमस्य-वृक्षत्वस्य विशेषणमिति चिन्त्यम्। ननु शिंशपात्वमेव विशेषणम् । एतदाशङ्कयाहकथञ्चित्-केनचित् प्रकारेण तद्विषयत्वोपयोगिना अन्यत् तर्हि तत्-शिंशपात्वं
(विवरणम्) (२४) तद्विषयत्वोपयोगिनेति । सः-विशिष्टः खट्टाकरणादिविषयः-प्रवृत्तिगोचरो यस्य स तथा तस्य भावस्तद्विषयत्वम् , तद्विषयत्वेनोपयुज्यत इत्येवंशीलाः तद्विषयतोपयोगी प्रकारस्तेन । अन्यादृशो हि वृक्षत्वसामान्यस्योपयोगः छायाकारणानि, अन्यादृशश्च शिंशपात्वादेः खटाकरणादिरिति ॥
१३६५तमे पृछे । २'त्वविद्यः' इति क-पाठः । ३ 'देशाऽर्थवाच्य' इति ङ-पाठः । ४ ३६५तमे पृष्ठे। ५'तद्विषयत्वं' इत्यधिकः ख-पाठः। ६ 'छायाकरणादि अन्या०' इति क-पाठः । ७ 'सदाकारणादि.' इति ख-पाठः ।।