________________
अधिकारः] खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम्) इति न काचिन्नो बाधा ॥
अथ तदात्मनो भावस्तादात्म्यमित्यत्र वक्तव्यम्-कस्यायमात्मा यदात्मनो भाव इत्यभिधीयते? । यदि शब्दस्य, तद्व्यतिरेकेण ५ अर्थाभावात्, सर्वस्य शब्दमात्रत्वात्, शब्दार्थयोस्तादात्म्यमिति न न्यायसङ्गतम्। न हि देवदत्त-वन्ध्यासुतयोस्तादात्म्यमित्यभिदधति विद्वांसः। न च तदुपलब्धौ तद्भेदेन तत्प्रतीतिः, चिन्ता वा तङ्गेदादिगोचरा, अस्ति च शब्दोपलब्धौ तद्भेदेनैतदुभयमर्थे । न चैतत् तद्भेदगोचरमेव, तद्भेदस्यातत्प्रतिभाससंवेदनेनावेदनात्। न हि चन्दन-.. शकलं कुङ्कममिति वेद्यते, वेद्यते च शब्दादू भिन्नप्रतिभासितया रूपादिघटादिः। बधिरोऽपि वाहीकः पश्यति पनसमिति सुप्रतीतम्।
(स्वो० व्या०) इति-एवं न काचिनो बाधा, अस्मदभ्युपगमस्याप्येवंरूपत्वात् । एवमेकं पक्षमधिकृत्य दूषणमुक्तम् ॥
इदानी पक्षान्तरमधिकृत्याह-अथ तदात्मनो भावस्तादात्म्यमिति एकवचनं समाश्रीयते । अत्र वक्तव्यम्-कस्य-शब्दादेरयमात्मा यदात्मनो भाव इत्यभिधीयते तादात्म्यमिति ? । यदि शब्दस्य आत्मेत्येतदधिकृत्याहतव्यतिरेकेण-शब्दात्मव्यतिरेकेण अर्थाभावात्-रूपादिघटाद्यभावात् । अभावश्च सर्वस्य शब्दमात्रत्वात्, शब्दार्थयोस्तादात्म्यमिति-एवं न २० न्यायसङ्गतमर्थाभावेन । अमुमेवार्थं निदर्शनेनाह-न हि देवदत्त-वन्ध्यासुतयोः सदसतोः तादात्म्यमित्यभिदधति विद्वांसः। न च तदुपलन्धौ-देवदत्तोपलब्धौ तङ्गेदेन-देवदत्तभेदेन तत्प्रतीतिः-वन्ध्यासुतप्रतीतिः, चिन्ता वा तद्भेदादिगोचरा-देवदत्तवन्ध्यासुतभेदादिगोचरा । अस्ति च शब्दोपलब्धौ सत्यां तद्भेदेन-शब्दभेदेन एतदुभयमर्थे यदुत २५ तद्भेदेन प्रतीतिः चिन्ता वा तद्भेदादिगोचरा ! न चैतत्-उभयं तद्भेदगोचरमेव-शब्दभेदगोचरमेव । कुत इत्याह-तद्भेदस्य-शब्दभेदस्य अतत्प्रतिभाससंवेदनेन-अतदाकारविज्ञानेन अवेदनात्-अननुभवात् । एतदेव भावयति-न हि चन्दनशकलं कुङ्कुममिति वेद्यते तद्वेदित्वात् , वेद्यते च शब्दा भिन्नप्रतिभासितया कुडमकल्पो रूपादिघटादिरित्यर्थः । एतदेव ।। स्पष्टयति-बधिरोऽपि वाहीकः पश्यति पनसमिति सुप्रतीतम्। किञ्च । १ 'भासिसंवेदने.' इति ग-पाठः। २ 'मर्थि यदुत' इति -पाठः। . .