________________
अनेकान्तजयपताकाख्यं प्रकरणम्
[चतुर्थः
भिधानात् नानयोरैक्यमेवेति नैवं 'शब्दब्रह्मपरिवर्तमानं जगत्" इति ऐदम्पर्यविरोधः, विजातीयपरिवर्तायोगात् इन्द्रियगम्येषु तथा५ऽदर्शनात् । न हि मृदम्भोरूपेण विपरिवर्तते, तद् वा तद्रूपेण, सकल
लोकसिद्धमेतत्, अस्यान्यथात्वाभ्युपगमे प्रतीतिबाधा द्रव्यवर्गणाविजातीयपरावर्तस्यापि देशादिभेदनिबन्धनत्वात् निरवयवं च शब्दब्रह्म, सावयवत्वे चास्यापरनामा धर्मास्तिकायाद्यभ्युपगम एव
(स्वो० व्या०) " अपृथग्भावाभिधानात् कारणात् नानयोरैक्यमिति कृत्वा नैवं शब्दब्रह्मपरिवर्तमानं जगदिति । ततः किमित्याह-ऐदम्पर्यविरोधः। कुत इत्याह-विजातीयपरिवर्तायोगात्; शब्दादर्थपरिवर्तो विजातीय इत्ययोगः । अयोगश्च इन्द्रियगम्येषु मृदादिषु तथाऽदर्शनात् । तदेवाह-न हि मृदम्भो.
रूपेण विपरिवर्तते, तद् वा-अम्भो मृद्रूपेण । सकललोकसिद्धमेतत्-नात्र १५ विगानं अस्य-अनन्तरोदितस्य अन्यथात्वाभ्युपगमे सति प्रतीतिबाधा ।
तथाप्रतीतेरिति । द्रव्यवर्गणेत्यादि । द्रव्यवर्गणासु विजातीयपरावर्तः औदारिकादेवैक्रियादिरूप इति विग्रहः तस्यापि देशादिभेदनिबन्धनत्वात् न तत्रैकस्यैव भेदकमन्तरेण परिवर्तभेदः निरवयवं च शब्दब्रह्म, तथाऽभ्युपगमात् सावयवत्वे चास्य-ब्रह्मणः किमित्याह-अपरनामा सज्ञान्तरविशिष्टो २० धर्मास्तिकायाद्यभ्युपगम एव भेद्यभेदकभावोपपत्त्या विजातीयपरावर्तोपपत्तेः,
(विवरणम्) (२०) धर्मास्तिकायाद्यभ्युपगम एवेति । यदि हि सावयवं ब्रह्माभ्युपगम्यते ब्रह्मवादिभिस्तदाऽस्मदभ्युपेतमेव पञ्चास्तिकाय[ज]मयं जगदङ्गीकृतं भवतीत्यर्थः ॥ - (२०) भेद्यभेदकभावोपपत्त्या विजातीयपरावर्तोपपत्तेरिति । तद् यथा२५ औदारिकादिवर्गणाप्रतिबद्धाः पुद्गला भेद्काश्च जीवधर्मास्तिकायादयः तेषां भावस्तथा
तस्योपपत्तिः-घटना तया हेतुभूतया विजातीयपरावर्तस्य-औदारिकादिवर्गणानां वैक्रियादिवर्गणात्वेन परिणतिलक्षणस्योपपत्ते:-घटनात् । अयमत्र भावः-यदा हि सावयवं ब्रह्माभ्युपगम्यते ब्रह्मवादिभिस्तदा केचित् तदवयवा भेद्याः केचिश्च भेदका इति घटत एव विजातीयपरावर्तः, परमेवं सति जैनाभ्युपगम एव समाश्रितो ३० भवति, धर्मास्तिकायाद्यवयवयुक्तत्वात् तन्मते त्रिलोकस्येति ॥
१ दृश्यतां ३६८तम पृष्ठम् । २ 'मदाभारूपेण विपरि०' इति क-पाठश्चिन्त्यः । ३ 'परिवर्तस्यापि' इति क-पाठः । ४ 'तथैव प्रतीते.' इति -पाठः । ५ 'कायं जगद' इति क-पाठः ।