________________
अधिकारः] स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुत्तम् ३६९
(मूलम्) वाचकभावातीतमिदमेव परं ब्रह्मेति न कश्चिद् दोषः । अत्रीच्यते'यत्किञ्चिदेतत् , अविचारितरमणीयत्वात् । तत्र यत् तावदुक्तम्-'न यभ्युपगमा एव बाधायै भवन्ति' तदसत् , असदभ्युपगमस्य बाधा- ५ योपलब्धेः चौराद्यभ्युपगमस्य विद्वन्मध्ये बाधाफलत्वात्, न हि दृष्टेsनुपपन्नं नाम । स्यादेतदसद्विषयोऽसाविति युक्तं बाधाफलत्वमस्य; न चैवं शब्दार्थयोस्तादात्म्याभ्युपगम उक्तनीतेस्तन्न बाधाफलस्व. मस्य, न, शब्दार्थयोर्हि तादात्म्यमिष्यत एव इत्यस्यैवायोगात्, शब्दार्थानुपपत्तेः। तथाहि-शब्दार्थयोस्तादात्म्यमिति कोऽर्थः । यदि तदात्मनो वस्तादात्म्यम्, एवं तर्हि तौ द्वावपीष्टावेवापृथग्भावा
(स्वो० व्या०) एवासौ तत्त्वतो यदि नाम न गृह्यते अतो वाच्यवाचकभावातीतमिदमेवशब्दब्रह्म परं ब्रह्मेति-एवं न कश्चिद् दोष इति पूर्वपक्षः । एतदाशङ्कयाह मूल- , सिद्धान्तवादी-अत्रोच्यते-यत्किञ्चित्-असारमेतत्-अनन्तरोदितम् । कुत १५ इत्याह-अविचारितरमणीयत्वात्। एतदेवोपदर्शयन्नाह-तत्र यत् तावदुक्तमित्यादि । किमुक्तमित्याह-'न ह्यभ्युपगमा एवं बाधायै भवन्ति । तेदसत्-अशोभनम् । कुत इत्याह-असदभ्युपगमस्य लोके बाधायोपलब्धेः । एतदेव भावयति-चौराद्यभ्युपगमस्य विद्वन्मध्ये-पण्डितसाधुमध्ये बाधाफलत्वात् । इत्थं चैतदङ्गीकर्तव्यमित्याह-न हि दृष्टेऽनुपपन्नं नाम । २० दृश्यते च विद्वन्मध्ये चौराद्यभ्युपगमो बाधाफलः । स्यादेतदसद्विषयोऽसौ-चौराघभ्युपगम इति युक्तं बाधाफलत्वमस्य । न चैवं शब्दार्थयोस्तादात्म्याभ्युपगमः असद्विषयः, उक्तनीतेहेतोः, तत्-तस्मात् न बाधाफलत्वमस्य । एतदाशङ्याह-न-न । किं तर्हि ? अस्त्येव बाधाफलत्वम् । कुत इत्याह-शब्दार्थयोर्हि तादात्म्यमिष्यते एव इत्यस्यैव-उक्तनीतिवाक्यस्य अयोगात् । २५ अयोगश्च शब्दार्थानुपपत्तेः । एनामेवाह--तथाहि-शब्दार्थयोस्तादात्म्य. मिति कोऽर्थः अस्य शब्दस्येति ?। यदि तदात्मनो:-शब्दार्थात्मनोर्भाव:सत्ता तादात्म्यम्, एवं तर्हि तौ द्वावपि-शब्दार्थों इष्टावेव-अभ्युपगतावेव
१ 'यत्किञ्चिदेतदिति विचारित.' इति क-पाठश्चिन्त्यः । २ ३६५तमे पृष्ठे। ३ “पने नाम इति क-पाठः । ४ 'षयो वासाविति' इति ग-पाठः। ५ 'एतदसत्' इति उ-पाठः । ६ 'फलम्' इति हु-पाठः। ७ 'एवेत्यसौ चोवोक्तः' इति क-पाठः । .
अनेकान्त०४७