________________
अनेकान्तजयपताकाख्यं प्रकरणम्
[चतुर्थः (मूलम् ) वत् तदवस्थाभेदहेतुत्वमेव पाटनादीनां सद्भावे न कश्चिदक्षतवदनः स्यादिति यथोक्तदोषाभावः ॥ ५ एवं शब्दब्रह्मपरिवर्तमानं जगत् । कथं तर्हि परं ब्रह्म शब्दा. विषयो यदाह-"अतः परं वाचो निवर्तन्ते" इत्यादि ?। उच्यतेवाच्यवाचकभावप्रपञ्चाभावतः, न शब्दरूपाभावेन। न खल शब्द इन्द्रियाद्यभावे शब्द इत्यगृह्यमाणः स्वसत्तां जहाति, अतो वाच्य
(खो० व्या०) १० यत्नतः-यत्नेन क्षुरिकादेर्मुखावेशः आवेशः-प्रवेशस्तस्मिंस्तदभावः-पाटनाद्यभाव इति विग्रहः तद्वत् तदवस्थाभेदहेतुत्वमेव-क्षुरिकाद्यवस्थाभेदहेतुत्वमेव पाटनादीनां न क्षुरिकादिमानहेतुत्वं तद्भावे-तत्सत्तामात्रनिबन्धनत्वे पाटनादेः न कश्चिदक्षतवदनः स्यादिति भावनीयम्, इति-एवं यथोक्तदोषाभावः शब्दार्थयोस्तादात्म्येऽपि तद्विशेषनिबन्धनत्वात् पाटनादेरिति गर्भः ॥ १५ एवं शब्दब्रह्मपरिवर्तमानं जगदिति तत्त्वम् । कथं तर्हि परं ब्रह्म शब्दाविषयो गीयते, यदाह भाष्यकारः-"अतः परं वाचो निवतन्ते" इत्यादि ? । प्रणवादूर्ध्वं वानिवृत्तिरुक्ता, न ब्रह्मनिवृत्तिः । एतदाशक्याहउच्यते-वाच्यवाचकभावप्रपञ्चाभावतो वाचो निवर्तन्ते, न शब्द
रूपाभावेन । एतद्भावनायैवाह-न खल्वित्यादि । न खलु शब्द इन्द्रिया२० द्यभावे शब्द इत्यगृह्यमाणः सन् स्वसत्तां जहाति । किं तर्हि ? शब्द
(विवरणम्) (१०) यत्नतः-यत्नेनेति । अयमन्त्राशयः-यदा कश्चित् कुशलः पुमान् मन्त्रादिना स्तम्भितसामर्थ्या क्षुरिकां विधाय मुखे प्रावेशयति, एवमेव मुखपार्थप्रदेशात् स्पृशन् प्रक्षिपति, तदा तस्य न भवत्येव वदनविदारणमिति ।। २५ (१३) न कश्चिदक्षतवदनः स्यादिति । यदि हि सत्तामात्रेणैव क्षुरिका वदनच्छेदनक: स्यात् तदाऽव्यापारिताऽपि सती सकलप्राणिमुखपाटनपट्टी भवेदिति ॥
(१७) प्रणवादूर्व वाग्निवृत्तिरुक्तति । यदा हि योगी परमं ब्रह्म ध्यातुमारभते, तदा क्रमेण तद्ध्यानमापूरयन् तद्गोचरं मत्रादिशब्दं संहरन् तावत् संहरति यावत्
ॐकारमात्रध्यानावस्थो जातः । ततोऽपि दृढतरप्रयत्नात् सर्ववायुनिरोध ॐकार३० मपि निरुणद्धि । एवं च यदि शब्दब्रह्मपरिवर्तमानं जगत् तदा सर्वशब्दनिरोधे ब्रह्मणोऽपि निरोधः स्यादिति ॥
१'परिविवर्तमात्र' इति क-पाठः। २ 'परब्रह्मः' इति क-पाठः। ३ 'बन्धनत्वेन पाटनादेः' इति -पाठः।